________________
अपराजितपृच्छा चतुरश्राः समाः शुद्धाः कोर्ध्वं च सुवृत्तकाः । सिंहकर्णैर्भूपितो;ः पूर्वालङ्कारशोभिताः ॥ १५ ॥ चतुारेषु प्राग्ग्रीवा सुवितानैविभूषिताः । कैलालाद्याः समुत्पन्ना वृत्ताः पञ्चशतानि च ॥ १६ ॥
इति कैलासप्रासादलक्षणम् । षड्भागैश्च तथाऽऽयामश्चतुर्भागश्च विस्तरा । विस्तरार्ध भ्रमे वृत्तं वामदक्षिणतो भवेत् ॥ १७ ॥ कुक्षिव्यासं बुधः कुर्याद् भागपादं ततः पुनः । एवं वृत्तायता: कार्या द्वारवेदीविभूषिताः ॥ १८ ॥ घण्टाकलशशृङ्गादिपूर्वालकारशोभिताः । प्रासादा मणिकोत्पन्नास्तथा सार्धशतानि च ॥ १९ ॥
___ इति मणिकप्रासादलक्षणम् । अष्टाश्राश्च ततः शुद्धास्तथा च समकर्णकाः । तदर्ध च भवेद् भद्रं कामदाश्च त्रिविष्टपाः ॥ २० ॥ चतुर्दारेषु प्राग्ग्रीवाः पूर्वालङ्कारशोभिताः। . एवं सार्धत्रिशतानि प्रासादाश्च त्रिविष्टपाः ।। २१ ॥
इति त्रिविष्टपप्रासादलक्षणम् । पञ्चकान्तरतश्चैवं मिथकाः सर्वकामदाः । सूर्योत्तरशतं चैवं मिश्रकाणां समुद्भवाः ॥ २२ ॥ वैराज्या: श्वेतवर्णाढ्याः श्वेतालारभूषिताः। पुष्पकाः हेमवर्णाश्च हेमरत्नविभूषिताः ॥ २३ ॥ कैलासा हिमवर्णाश्च श्वेतालङ्कारभूषिताः । मणिकाः सर्ववर्णाः स्युस्तथैव च त्रिविष्टपाः ॥२४॥ पीठोपपीठजवाश्च मेखलाकूटच्छाद्यकम् । सिंहकर्णश्च शिखर: सर्वरत्नविभूषितः ॥ २५॥ जालव्यालकपोतालीसिंहकर्णसुच्छाद्यकैः । स्फटिकैमरत्नाव्यैः सर्वलक्षणसम्युतैः ॥ २६ ॥ पूर्व च ब्रह्मणा प्रोक्ताः पूजापञ्चमहोत्सवाः । तत आदौ समुत्पन्नाः प्रासादाः सर्वकामदाः ॥ २७ ॥ यैरिह क्रियते पूजा शिवस्य पृथिवीतले ।। लभन्ते ते ब्रह्मलोकं शिवलोकमभीप्सितम् ॥ २८॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्यो-कापराजितपृच्छायां
वैराज्यादिप्रासादलक्षणाधिकारो नाम पञ्चपञ्चाशदुत्तरशततमं सूत्रम् ॥