________________
३७०
अपराजितपृच्छा शाखयोश्चन्द्रसूर्यों तु त्रिमूर्तीश्चोत्तरङ्गके । उदुम्बरे स्थिता यक्षा अश्विनावर्धचन्द्रके ॥ १५ ॥ कोणिकायां धराधारः क्षितिश्चोत्तानपट्टके । स्तम्भेषु पर्वता: प्रोक्ता आकाशं च करोटके ॥ १६ ॥ जालके ऋषिसधाश्च सुरा मध्ये प्रतिष्ठिताः । मकर जाह्नवी गङ्गा चण्डेशे गोमती तथा ॥ १७ ॥ ब्रह्मा विष्णुस्तथा सूर्य ईश्वरी च सदाशिवः । उरःशुगे तथा पञ्च भद्रभद्रेष्वयं विधिः ।। १८ ॥ शिखरे चेश्वर विद्याच्छिखायां तु सुराधिपम् । ग्रीवायां त्वम्बरं देवमण्डके च निशाकरम् ॥ १९ ॥ पद्माक्षं पद्मपत्रे चाऽमलमामलसारके । कलशे च स्थितो रुद्रो व्योमव्यापी सदाशिवः ॥ २० ॥ सद्यो वामस्तथा घोरस्तत्पुरुष ईश एव च । कणे प्रतिरथे चैव रथे पञ्जरभद्रयोः ॥ २१ ॥ पञ्चवक्त्राणि पञ्चानासत्या भद्रान्तगा भवेत् । इत्येते च समाख्याता: प्रासादे त्रिदशाः खलु ॥ २२ ॥ न्यूनाधिक स्थिता यत्र देवास्तत्रैव ते पुनः । हीने हीनाः प्रतिष्ठाप्या अधिक चाधिकाः शुभाः ॥ २३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
प्रासाददेवतान्यासाधिकारो नाम पञ्चाशदुत्तरशततम सूत्रम् |