________________
(१५१) सूत्रधारपूजाविधिनीमैकपञ्चाशदुत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच
इत्यनन्तरतो वत्स पूजित्वा सूत्रधारकम् । यशमण्डपमध्ये च मण्डलं कारयेच्छुभम् ॥ १॥ पहाच्छादनकं कृत्वा स्वस्तिकं च समालिखेत् । सूत्रासने सूत्रधारं पादों प्रक्षाल्य स्थापयेत् ॥ २॥ कुङ्कुमालेपनं कृत्वाऽऽवृणुयाद् दिव्यवस्त्रतः।। मुकुटं कुण्डले सूत्रं कङ्कणं दिव्यमुद्रिकाम् ॥ ३॥ हारकेयूरसंयुक्तं पादाभरणकादिकम् ।। देयं स्त्रीनरयुग्मस्य पुत्रपात्रयुतस्य च ॥४॥ गृहोपस्करकं सर्व गोमहिष्यश्वकादिकम् । दारलीकर्मकरांश्चैव यत्सुखासनकादिकम् ॥५॥ ग्राम चैव ततो दद्यात कृष्णां वा भूमिमुत्तमाम् । अन्ये ये पूजनीया चै उत्तमाष्टंकपाणिकाः ॥ ६॥ वस्त्रप्रावरणैः सर्वे उत्तमादिक्रमेण तु । सर्वेषां टङ्कपाणीनां दत्वा दानं च पुण्यकृत् ॥ ७ ॥ सर्वेषां कर्मकराणां धनं दद्याच्च सर्वतः। वस्त्रप्रावरणान् कृत्वा पुण्यदानं च सर्वथा ॥ ८॥ नाऽपकुर्याद्यथा वत्स सूत्रधारः स्वकर्मसु । तस्मिस्तुष्टे च सन्तुष्टा ब्रह्मविष्णुहरादयः ॥९॥ भोजनीयास्तत्र सर्वे मिष्टान्नैः खण्डपाचितैः । ताम्बूलं लेपनं दद्याद्यावत् संतुष्टिमाप्नुयुः ॥ १०॥ सूत्रधारएहस्तास्तुष्टा यत्र गृहेषु च । तत्र तुष्टः शिवो देवस्त्रिदशैश्चैव संयुतः ॥ ११ ॥ तत्तुष्टच जगत्तुष्टं त्रैलोक्यं सचराचरम् । सर्वतीर्थोद्भवं पुण्यं सर्वदेवप्रतोषणम् ॥ १२॥ संतुष्टचेतसः कृत्वा याचनीयं करोदकम् । आसि पुण्य स्वयं दाता देयं निष्केवलावयम् ॥ १३ ॥ सूत्रधारापण्यावेषु आत्महस्तं तु याचितम् । मम सन्तानेन मोक्षं दद्याद् भवप्लवान्तकम् ॥ १४ ॥ मया विरूपं व्यक्तं तु अदत्वंकपातरूपकम् । क्षमावद्भिः प्रकर्तव्यं सन्तुप्रैः पुण्यदानकम् ॥ १५॥ एवमेव प्रदातव्यं सूत्रधारेण चोदकम् ।। निष्केवलं च पुण्यं ते यजमान सदाऽस्तु हि ॥ १६ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाया
सुत्रधारपूजाविध्यधिकारो नामैकपञ्चाशदुत्तरशततमं सूत्रम् ।।