________________
(१५०) प्रासाद्देवतान्यासो नाम पश्चाशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मावाच
प्रासादे देवतान्यासं स्थापयेश्च समस्ततः । तदनुक्रमतो वक्ष्ये शृणुचैकापमानसः ॥ १॥ पादे पराक्रमं देवं प्रतिष्ठाप्य भूमध्यतः । प्राग्भारोद्भवं देवं शिलायां च तदूर्ध्वत: ॥२॥ शिलोद्भवोद्धता चादौ दंष्ट्रया भूः समस्तिका । वराहरूपेण खरशिलायां धरणीधरः ॥ ३॥ सूत्रपातं समासार्य स्थायश्चिन्तामणिस्तथा । आधस्तरोर्ध्वदेशे च तत्र नागकुलानि च ॥४॥ प्रतिष्ठाप्याः पन्नगाश्च स्थाने पोल्यभिधानके। तदूचे कुम्भकाख्ये च संस्थाप्या जलदेवताः ॥ ५॥ पुष्पकं च तदूचे तु चिपिका पुष्पकान्विता। संस्थाप्याः किन्नरास्तत्र चिप्पिकापुष्पकाकुलाः ॥६॥ जाडयकुम्भे स्थितो नन्दी कर्णाल्यां च ततो हरिः। गजपीठे गणेशश्च अश्वपीठे तथाऽश्विनौ ॥ ७ ॥ नरपीठे नगंश्चैव स्थापयेत् क्रमयोगतः। क्षमां देवीं च खुरके स्रष्टारं कुम्भके तथा ॥ ८॥ निर्गमोद्मसीमायां तत: सुष्धिर्विनिर्गता। सन्ध्यात्रयं प्रतिष्ठाप्यं क्रमतो भद्रकत्रये ॥९॥ कलशे च स्थिता देवी पार्वती तु हरप्रिया। धनदोऽन्तरपत्रे च प्रतिष्ठाप्यो यथाक्रमम् ॥ १० ॥ कपोताल्यां गन्धर्वा अन्त:पत्रे च किन्नराः। शारदा मश्चिकायां च जवायां मेरुरेव च ॥ ११ ॥ लोकपालाश्च दिक्पाला: सुराश्चाथ गणेश्वराः।। उदीच्यामिन्द्रदेवश्च सावित्री भरणे स्थिता ॥ १२ ॥ भाराधार: शिरावट्यां पट्टे देव्यश्च संस्थिताः । विद्याधराः कपोताल्यामन्तःपत्रे सुरास्तथा ॥ १३ ॥ पर्जन्यः कूटच्छाये तु छाद्यनिर्गमसंयुते । तदनन्तरतो देवान स्थापयेद गर्भमध्यतः ॥१४॥