________________
अपराजितपृच्छा यवो व्रीहिस्तथा कर्जूर्णाद्याश्च तिलैर्युता । शाली मुङ्गा समाख्याता गोधूमाश्च क्रमेण तु ॥ १६ ॥ यदेवाभरणं पूजा वस्त्रालङ्कारभूषणम् । स्नानमण्डपोपस्करान् स्थालीपात्रं तु शिल्पिने ॥ १७ ॥ शलाका मधुपात्रं च छत्रिकाद्यं च शिल्पिाने । स्नानशय्या ध्वजाद्यं च दातव्यं चैव शिल्पिने ॥ १८॥ सर्व यज्ञोपस्करं च शय्यावितानकादिकम् । अन्योपस्करकं सर्वमाचार्याय प्रदापयेत् ॥ १९ ॥
इति यक्षमण्डपविसर्जनम् । अतश्चानन्तरं कुर्यादस्य चैव महोत्सवम् । नृत्यैश्च गीतवादित्रैः फलपुष्पवितानकैः ॥ २० ॥ प्रकीर्णविविधास्वाथैः फलैश्चैवमनेकशः । द्वारनालैः सुशोभाव्यैः पुष्पवितानसंकुलैः ।। २१ ॥ कदलीस्तम्भशोभायैर्ध्वजामालाकुलैस्तथा। रम्भापत्रैः प्रेक्षणीयैास्थताण्डवकादिकैः ।। २२॥ आरात्रिकैर्गन्धधूपैर्गीतकामलकायकैः। भोगैश्चैवातिभोगैश्च कर्पराद्यैश्च कुङ्कुमैः ॥ २३ ॥ कूर्मादौ च तथा कुर्यान्छिलासंस्थापने तथा । द्वारे पद्मशिलायुक्तौ पुरुषस्य निवेशने ॥२४॥ कलशे च ध्वजारोपे प्रतिष्ठासप्तके तथा । शान्तिका द्विसप्तके व प्रयुक्तं वास्तुवेदिभिः ॥ २५ ॥ शुभं चेदं कारयेद्यः प्रतिष्ठासप्तकादिकम् । स याति परमं लोकं यत्र देवः सदाशिवः ॥ २६ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
रत्नन्यासप्रतिष्ठाधिकारो नामैकोनपञ्चाशदुत्तरशततमं सूत्रम् ।।