________________
(१४९) रत्नन्यासप्रतिष्ठा नामैकोनपश्चाशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
धात्वौषधीश्च रत्नानि धान्यान्यष्ट तथैव च । वक्ष्ये मन्त्रानुक्रमं च यथोक्तं च पृथग बुधैः॥१॥
आँ इन्द्रस्तु महतां दीप्तः सर्वदेवाधिपो महान । वज्रहस्तो गजारूढस्तस्मै नित्यं नमो नमः ॥२॥
आँ अग्निस्तु महतां दीप्तः सर्वतेजोऽधिपो महान् । मेषारूढः शक्तिहस्तस्तस्मै नित्यं नमो नमः ॥ ३॥
आँ यमस्तु महतां दीप्तः सर्वप्रेताधिपो महान् । महिषस्थो दण्डहस्तस्तस्मै नित्यं नमो नमः ॥४॥ औं निक्रतिस्तु महादीप्तः सर्वक्षेत्राधिपो महान् । खड्गहस्तः शिवारूढस्तस्मै नित्यं नमो नमः ॥५॥ औं वरुणस्तु महादीप्तः सर्ववार्यधिपो महान् । नक्रारूढः पाशहस्तस्तस्मै नित्यं नमो नमः ॥६॥ आँ वायुस्तु महतां दीप्तः सर्वमण्डलपो महान् । ध्वजाहस्तो मृगारूढस्तस्मै नित्यं नमो नमः ॥७॥ आँ कुबेरस्तु महादीप्तः सर्वयक्षाधिपो महान् । निधिहस्तो गजारूढस्तस्मै नित्यं नमो नमः ॥८॥
आँ ईशानस्तु महादीप्तः सर्वयोगाधिपो महान् । शूलहस्तो वृषारूढस्तस्मै नित्यं नमो नमः ॥९॥
आँ ब्रह्मा तु महतां दीप्तः सर्वसृष्ट्यधिपो महान् । हसारूढः पद्महस्तस्तस्मै नित्यं नमो नमः ॥ १० ॥
आँ विष्णुस्तु महतां दीप्तः सर्वयोगाधिपो महान । ताारूढो गदाहस्तस्तस्मै नित्यं नमो नमः ॥ ११ अनेन क्रमयोगेन रत्नन्यासं तथोत्तमम । पूर्वादिक्रमयोगेन रत्नधात्वौषधानि च ॥ १२ ॥ वज्रवैडूर्यमुक्ताश्च इन्द्रनीलसुनीलकम् ।। पुष्परागं च गोमेदं प्रवालं पूर्वतः क्रमात् ॥ १३ ॥ हेमं रौप्यं ताम्रकांस्ये रीतिका नागबङ्गको । पूर्वादिकमतश्चैव आयसं चैवमन्ततः ॥ १४ ॥ वचा वह्निः सहदेवी विष्णुकान्ता च वारुणी । संजीवनी ज्योतिष्मती ईश्वरी पूर्वतः क्रमात् ॥ १५ ।।