________________
३६६
अपराजितपृच्छा
तस्याने स्वस्तिकं कुर्यात् पादतश्चतुरश्रकम् । तस्याग्रे तु भवेद् भद्रं स्वस्तिकं च तदन्ततः ॥ १६ ।। पापीभद्रकयोर्मध्ये लता कोष्ठचतुष्कतः। अष्टौ वाप्यश्च भद्राणि लताश्च स्वस्तिकानि च ॥ १७ ॥ चतुरसमायुक्तं वीथिकान्तरजन्मे ?। सर्वतोभद्रमेवं तु कर्तव्यं चैव मानतः ।। १८ ॥ मध्यं द्वयष्टककोष्ठैश्च चतुष्कस्य न कारयेत् । द्वात्रिंशदेखिका बाह्येऽष्टपत्राणि द्वितीयके ॥ १९ ॥ केशराणि तृतीये च नवधीजांश्चतुर्थके । एवंविधं प्रकर्तव्यं सर्वदैवतपूजनम् ॥ २० ॥ तीर्थानि नवपीतानि चतुर्धा केशराणि च । रक्तानि पद्मपत्राणि बाह्यरेखा चतुर्विधा ॥ २१ ॥ सत्वं रजस्तमश्चेति त्रिवत्ता वीथिका भवेत् । चतुर्वायणि श्वेतानि वीथिकर्णान्वितानि च ॥ २२ ॥ चतुर्भद्रा भवेद्रेखा श्वेतानां च चतुष्टयम् । पीतं स्वस्तिचतुष्कं च रक्तानां च चतुष्टयम् ॥ २३ ।। पीतवर्णा लता कार्या वाप्यर्धहरिताऽप्यथः। अर्धपीतां ततः कुर्यात्कर्णान्ते वृत्तबाह्यतः ॥ २४॥ तथा द्वधङ्गलवृत्तानि सत्त्वरजस्तमांसि च । रजो ब्रह्मा तमो विष्णुः सत्वं चैव महेश्वरः ॥ २५ ॥
___ इति सर्वतोभद्रमण्डलम् । एकद्वित्रिचतुःपञ्चषडात्रैश्चाऽधिवासनम् । सुमुहूर्ते शुभे लग्ने प्रतिष्ठाप्यादि चाऽऽनयेत् ॥ २६॥ स्वमानीतो यदा देवो निमित्तं लक्षयेत्तदा । शुभे च सिद्धिमाप्नोति अशुभे च वधादिकम् ॥ २७ ॥ रत्नन्यासं ततः कुर्याल्लिङ्गार्चायां विचक्षणः । धात्वौषधीश्च रत्नानि धान्यान्यष्ट तथैव च ॥ २८ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचायोक्तापराजितपृच्छायां __ मण्डलविध्यधिकारो नामाष्टचत्वारिंशदुत्तरशततमं सूत्रम् ।।
-
-