________________
(१४८) मण्डलविधिर्नामाष्टचत्वारिंशदुत्तरशततमं सूत्रम् ।।
विश्वकर्मोवाच
मण्डलेषु च सम्पूज्या निर्वाणदीक्षितादिषु । विधिशेयानि तत्रैव मण्डलानि भवन्ति हि ॥१॥ सर्वतोभद्रं भद्रं च लतालिङ्गोद्भवं तथा । लिङ्गं च गौरीतिलक अर्धचन्द्रं च स्वस्तिकम् ॥२॥ योन्याकारं न च वाच्यं चापाकारं च टङ्कमम् । गजदन्तं पुरुषाक्षं चतुरश्राणि भेदतः ॥३॥ एकहस्तं द्विहस्तं वा हस्तत्रयमथोच्यते। ज्येष्ठमभ्यकनिष्ठानि उदितानि त्रिधा क्रमात् ॥ ४॥ ब्रह्मविष्ण्वर्क पूजासु सर्वभद्रं तु कामदम् । भद्रं तु सर्वदेवानां भुवनानां त्रयं यथा ॥५॥ लतालिङ्गोद्भवं पूज्यं लिङ्गं चैव शिवात्मनः। पूजायां सर्वदेवानां गौरातिलकभद्रकम् ॥ ६॥ अर्धचन्द्रं तडागेषु चापाकारं तथैव च । टंकाभं स्वस्तिकं चैव वापीकूपेषु पूजितम् ॥ ७ ॥ जलपर्द्वपीठिकासु योन्याकार तु कामदम् । गजदन्तं महादुर्गे प्रशस्तं मण्डलं शुभम् ॥ ८॥ वर्णार्थं च शिलापृष्ठे श्वेतं कुर्याच मण्डलम् । रक्तं मिषं च सिन्दूरैः पीतं मिथं हरीतकैः ॥९॥ हरिद मिथं बालरसैः श्वेतं दुग्धं वशादिजम् । इत्येतद्वर्णमाकारे मण्डलार्थ प्रयुज्यते ॥ १० ॥ चतुरथं समं कृत्वा भुजकर्णविशोधितम् ।। भाजयेत् षोडशभागः षट्पञ्चाशच्छतद्वयम् ॥ ११ ॥ मध्ये भागवतुम्के च पद्मं चैव प्रदापयेत् । तदनन्तरपङ्कौ च भवेत् पार्धाथिका ॥ १२ ।। पद्मतुल्यानि द्वाराणि चतुर्दिक्षु प्रकल्पयेत् । स्वस्तिवापीलताभद्रं वे द्वे च प्रतिकर्णकम् ॥ १३॥ शस्तं द्वारं चतुर्भाग द्वारकण्ठस्तदर्धतः। काकिलं बै कण्ठसमं द्वारशोभिकपालकम् ॥ १४ ॥ द्वारस्योभयपक्षे तु वापी स्यादपको कैः। पीथीकणे भवेदू भद्रं पत्रकोष्ठसमन्वितम् ॥ १५ ॥