________________
३६४
अपराजितपृच्छा लखिते दोषमाप्नोति विघ्नं कूटमहाभयम् । आनयेदीशानवेद्या तुलामारोपयेत्ततः॥ ४६ ॥ उत्तरेऽशी शिरो याम्ये पूर्व वा पश्चिमे तथा । कलशं तच्छिरो देशे वामे स्याद् दर्पणः शुभः ॥ ४७ ॥ व्यजनं दक्षिणे देशे पादस्थाने कमण्डलुम् । आच्छादयेद् दिव्यवस्वैर्विताने दिव्यवस्नके ॥४८॥ स्थण्डिलानि ततो ह्यष्टौ द्वारयोः कलशानि च।। अकृष्टं चेतिमन्त्रेण द्वारपालान् निवेशयेत् ॥ ४९ ॥ बलिकर्म प्रकुर्वीत दिपतींश्च क्षमापयेत् । गन्धधूपैश्च बलिभिरिन्द्रादीन् दशदिक्षु च ॥५०॥ द्वे द्वे चाहती हवनामस्वजाप्यश्च मेव च । इत्यनुक्रम कुण्डैश्च ऋत्विजानां तु सङ्ख्यया ॥ ५१ ॥ ब्रह्माचार्य ऋत्विजश्च द्वारपालास्तथा परे । चत्वार इति कुण्डेषु ऋत्विजश्चैव षोडश ॥ ५२॥ अष्टौ तु द्वारपालाश्च दिशांपालास्तथोत्तमाः । एवंविधः प्रकर्तव्यो मण्डपे तु महोत्सवः ॥ ५३ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां सप्तप्रतिष्ठायज्ञमण्डपकुण्डविधिनिर्णयाधिकारो नाम सप्तचत्वारिंशदुत्तरशततम सूत्रम् ।।