________________
सप्तप्रतिष्ठा यज्ञ मण्डपकुण्डविधिनिर्णयो नाम सप्तचत्वारिंशदुत्तरशततमं सूत्रम् ॥ ३६३
त्रिशल्लक्षे पञ्चहस्तं कोट्यर्थे षट्करं मतम् । सप्ततिलक्षेऽद्विकरं कोटिहोमे कराष्टकम् ॥ ३० ॥ ग्रहादिसर्वपूजासु कुण्डं स्यादेकहस्तकम् । अङ्गुलत्रयतो वृद्धिः शूद्रादेर्ब्राह्मणान्ततः ॥ ३१ ॥ निरीक्ष्या प्रेक्षणं चैव तडनषडणस्तथा ? | अधिकरणं वेधेन कुटिल समस्ततः ? ॥ ३२ ॥ कुण्डार्चनां कण्ठप्रधानरेखा चतुःषष्ठिवज्रिकरणक । अष्टादश कुण्डविस्तरः न्यासउपनः ? ॥ ३३ ॥
स्वस्तिश्री वहिआवाहनम् । आव्हाहन शान्ततेयगो रुहपत्यौ रेखायं प्रकर्तव्यम् ॥ ३४ ॥
ब्रह्माऽऽद्यायां तु रेखायां द्वितीयायां जनार्दनः । शिवः स्थितस्तृतीयायां हूंकारे सर्वदेवताः ॥ ३५ ॥
ॐ ह्रां ह्रीं हूं वह्निमूर्तये नमः स्वाहा ।
ॐ स्वाहा पनये नमः | हुति हवनांतान्यकारेषु देशयेत् ॥ ३६ ॥
उत्तरवेद्यां तु मध्योयः सहाय समवर्षया ? |
अनये सूत्रवेदेयं स्थण्डिले तु शय्यासनम् ॥ ३७ ॥ शिल्पिनं पूजयेत्तत्र वस्त्रालङ्कारभूषणैः ।
तथा गां शिल्पिने दद्यादलङ्कारसमन्त्रिताम् ॥ ३८ ॥
लक्षणोद्धारकं कुर्यात् शास्त्रदृष्टेन कर्मणा । पञ्चगव्यैस्तथा स्नात्वा पञ्चकषायसंयुतैः ॥ ३९ ॥ क्षीरवृक्षत्वचाभिश्च पञ्चघटैरहीनकैः । चत्वारो विप्रहस्तेषु सूत्रधारे तु पञ्चमः ॥ ४० ॥
शतसाहस्रकलशैः स्नानं तत्र समाचरेत् ।
मन्त्रं चैव समुच्चार्य नानार्थेषु विघ्नापहम् ॥ ४१ ॥
समुद्रो ज्येष्ठ सहिला समुद्रो ज्येष्ठ न सलिला समुद्रो ज्येष्ठस्त सलिला अपांदेवी
उत्तराभवन्ति या सृता वरणानां चतुष्टयम् ? ॥ ४२ ॥
मन्त्रानेतान्समुच्चार्य स्नानं च देवताकृतेः । शतसाहस्रकलशैः कृत्वा देवं च स्थापयेत् ॥ ४३ ॥ भेरीमृदङ्गवाद्यादिशङ्खशब्देध मङ्गलैः । वेददुन्दुभिनिस्वानैर्नृत्यगीतसमन्वितैः ॥ ४४ ॥
आरोपयेद्रथे देवं कृत्वा च त्रिप्रदक्षिणम् । प्रविशेदुत्तरद्वारात् स्नानवारि न लङ्घयेत् ॥ ४५ ॥