________________
३६२
अपराजितपृच्छा मण्डपस्य चतुर्दाःसु ललाटोच्छ्यतोरणम् । प्लक्षोदुम्बरन्यग्रोधाश्वत्थाः पूर्वादितः क्रमात् ॥ १४ ॥ तत्तत्काष्ठमयान कुर्यात् स्तम्भान्चे तोरणोदये । उत्तरङ्गे त्रिशलानि कर्तव्यानि क्रमेण तु ॥ १५ ॥ इन्द्रगोपोपमाः कृष्णाः पीताः सर्षपपुष्पवत् । श्वेताश्चैव पताकाश्च पूर्यादिक्रमयोगतः ॥१६॥ मध्येच सर्ववर्णाश्च पताकाश्च समुच्छ्रयेत् । वितानैर्विविधाकारैः पद्मपत्रोपशोभितैः ॥ १७ ॥ मण्डप दिव्यमाख्यातं पुरे च निलयोपमम ।। चतुःकर्णेषु वेद्याश्च षडंशोन्नतवेदिकाः ॥ १८ ॥ तासामुत्तरपार्श्वे तु कुर्याद्वै स्नानमण्डपम् ।। कार्य च कामदं मूलमण्डपस्य त्रिभागतः ॥ १९ ॥
___ इति यज्ञमण्डपाधिकारः। विदिक्षु दिक्षु कुण्डानि कर्तव्यानि क्रमेण च । उदयार्धान्तरे वेद्याः करमात्रश्च विस्तरः ॥ २० ॥ हस्तमात्रं खनेत्कुण्डं विस्तृत हस्तमेव च। मेखला व्यङ्गलैश्चैव कर्तव्या क्रमयोगतः ॥ २१ ॥ तथाश्वत्थदलाकारा कुण्डनाभिश्च विस्तृता । उत्तराभिमुखं कृत्वा गजोष्टसदृशानना ॥ २२ ॥ कुण्डयोनिस्तु कर्तव्या सर्वकामफलप्रदा । इत्थं गुणाः समाख्याताः कुण्डदोषानथ शणु ॥ २३ ॥ उत्तानमर्थनाशं च तथा चिन्तामधोमुखम् । विकर्ण रोगबाहुल्यमिति दोषास्तथा स्मृताः ॥ २४ ॥ चतुरथं भवेत्पूर्वे आग्नेय्यां च भगोपमम् । अर्धचन्द्रसमं याम्ये पञ्चकोणं तु नैऋते ॥ २५ ॥ वारुणे वर्तुलाकारं वायव्ये रसकोणकम् । सौम्ये पद्मदलाकारमैशान्यां वाष्टकोणकम् ॥ २६ ॥ मध्ये च दर्पणाकारं कुण्डान्युक्तानि वै नव । मध्यस्थाने वेदिकावत् कुर्याद्वै कुण्डकाष्टकम् ॥ २७ ॥ साधारणेषु यज्ञेषु शस्यते कुण्डपञ्चकम् । आदौ चाऽयुतहोमे तु कुण्डं चैककरं स्मृतम् ॥ २८ ॥ अयुताधिकलक्षार्धे कुण्डं कुर्याद् विहस्तकम् । लक्षहोमे त्रिहस्तान्तं दशलक्षे चतुष्करम् ॥ २९ ॥