________________
(१४६) ध्वजामाहात्म्यनिर्णयो नाम षट्चत्वारिंशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
पातालभूधरा लोकास्तथा वै द्वीपसागराः । यत्र निवासात्मकानां धर्मस्थानमनोद्भवः ॥ १ ॥ श्रीणि कुर्यादूर्ध्वतश्च अधस्तात् त्रीणी एव च । स्वर्गारिततडागानि यशो देवकुलं कुलम् ॥ २ ॥ यत्र देवकुलाने च ध्वजावंशश्च वंशकृत् । पताका पापहारी च शत्रुपक्षक्षयंकरी ॥ ३ ॥ पञ्चात्मपञ्चभूतानि पञ्चतस्येन्द्रियाणि च । पञ्चैव लोकपालाः स्युः पताकाग्रे शिखास्तथा ॥ ४ ॥ पञ्चभिः पञ्चभिः पाल्यं धर्मो यत्र कुले भवेत् । पञ्चैः स्यात् हम्यमानैः धर्मारितत्कालारिजम् ? ॥ ५ ॥ पवनै दल्यमानाश्च क्रीडयन्ति दिशो दश । फलन्ति फलकाले च हेन्यपापं पुण्योद्भवा ? ॥ ६॥ मण्डुकी मण्डुकाकारा कीर्तिस्योर्द्धमहोद्भवाः ? | मण्डपं दिव्यमाख्यातं जन्मजन्मनि कुलवासनम् ? ॥ ७ ॥ जय विजयपताका गङ्गार्कतनयाभवा । सुरनिलयोत्तराख्या या यस्ये पृथिव्यात कै ? ॥ ८ ॥ कीर्ति घण्टा त्रिलोकेषु जन्म वा कुल उत्तमे । ध्वजा भूषया चामरैश्च व्यञ्जकैः सवराटकैः ॥ ९ ॥
वंशपताकोत्तरस्थां तरवंक्षे कुलसम्भवा । सहृदये हृदयात्मा च ब्रह्मज्ञान सउन्मीलता ? ॥ १० ॥
तदूवें कलश स्थाप्यं घोरसंसारतारकम् । महात्मानः पुरं यान्ति शुभं रत्नमयं तथा ॥ ११ ॥ ध्वजोदये तु तुष्यन्ति देवाश्च पितरस्तथा । सदा सा कुलसन्तानसुपुष्ट्यायुष्करी भवेत् ॥ १२ ॥ ध्वजारोपे कृतं पुण्यं दशाश्वमधिकं भवेत् । सर्वपृथ्वीतीर्थपुण्यं ते व्रजन्ति शिवालयम् ॥ १३ ॥ पूर्वान्परांश्च पञ्चाशदात्मानं च तथाधिकम् । कुलमेकोत्तरशतं नरकान्तारयन्ति च ॥ १४ ॥ आचार्यशिल्पिभिश्चैव यजमानो ग्रहानुगैः स याति परमं स्थानं यत्र देवो महेश्वरः ॥ १५ ॥