________________
अपराजितपृच्छा दिक्पाललोकपालानां वसूनां च महत्तमाः। चतुःषष्टिश्च दिव्यानां स्वर्गिणां स्वेकविंशतिः ॥ १९ ॥ माडोपरि ध्वजादण्डपताका: शत्रुमर्दनः। एवंविधं प्रकर्तव्यं कीर्तिस्तम्भस्य लक्षणम् ॥ २०॥
इति कीर्तिस्तम्भलक्षणम् । तडागेषु च सर्वेषु खन्यमानेषु चादितः । महायज्ञं तदा कुर्याद् ध्वजास्तम्भांस्तथैव च ॥ २१ ॥ आनन्दो दुन्दुभिः कान्तः श्रीमुखः सुमनोहरः । नवहस्तो भवेदाद्यः सप्तदशकरोऽन्ततः ॥२०॥ द्विहस्तान्तरतो भेदा आनन्दादिकसंज्ञकाः । मनोहरान्ताश्चाख्याता पश्च स्तम्भा भवन्ति हि ॥ २३ ॥ तदग्ने कलशं कुर्याद् ध्वजावंशसमुद्भवम् । पताका पापहारी च शत्रुपक्षक्षयंकरी ।। २४ ॥
इति तडागे ध्वजाधिकारः। समस्तासु च वापीषु ध्वजास्तम्भस्तथा भवेत् । दक्षिणे द्वारनिष्कासे ध्वजास्तम्भ प्ररोपयेत् ॥ २५ ॥ पीठबन्धः सुकर्तव्य एकद्वित्रिकरोन्नतः । तत: प्ररोपयेत् स्तम्भ सारदारुढोत्तमम् ॥ २६ ॥ त्रिहस्तः पञ्चहस्तश्च सप्तहस्तः समुन्नतः। ज्ञानमर्थश्च कामश्च त्रिभिश्चैतत् त्रिकं भवेत् ॥ २७ ॥ तवं कलशं दिव्यं कर्तव्यं लक्षणान्वितम् । ध्वजावंशो भवेदू पताका च प्रलम्बनम् ॥ २८ ॥ स्तम्भाधं च भवेद्वंशो वंशतुल्या पताकिका । एवंविधः प्रकर्तव्यः वापीनां तु ध्वजोद्भवः ॥ २९ ॥
इति वापीध्वजाधिकारः। कुण्डेषु पुष्करे कूपे ध्वजास्तम्भः समुद्भवेत् । वापीस्तम्भप्रमाणेन कर्तव्यः सर्वकामदः ।। ३०॥ त्रिपञ्चसप्तहस्तान्ते उदकान्तरशतं शुभम् । तथा प्राचीशानमध्ये रिभजेन्नवभागतः ॥ ३१ ॥ वामे त्रयं परित्यज्य दक्षिणे च त्रयं त्यजेत् । भुक्तिदश्चान्तरे भागे प्राचीतो मुक्तिदो भवेत् ॥ ३२॥ सुखावहश्च मध्यस्थो धर्मार्थकाममोक्षदः । एवंविधं प्रकर्तव्यं ध्वजानां लक्षणं शुभम् ॥ ३३ ।।
इति कुण्डपुष्करकूपध्वजाधिकारः । इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृश्छायां समस्तध्वजानिर्णयाधिकारो नाम पञ्चचत्वारिंशदुत्तरशततमं सूत्रम् ।।