________________
(१४५) समस्तध्वजानिर्णयो नाम पञ्चचत्वारिंशदुत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच
वापीकूपतंडागेषु कुण्डे च पुष्कराहये । ध्वजास्तत्रापि कर्तव्याः स्थानमानं च लक्षितम् ॥१॥ पुरे च नगरे चैव कोटे कुर्यादू ध्वजारुहान् । राजगृहे रथे वापि ध्वजास्तत्रापि कारयेत् ॥ २॥ कटकादेश्च भवने महाराच्या ध्वजोद्भवः । यत्र राजा ध्वजा तत्र अनेकाकाररूपिणी ॥ ३ ॥ विधातव्या पताकाभिर्ध्वजा राझोऽति वल्लभा। संग्रामारोहणे चैव गजारोहे मनोरमा ॥४॥ वसन्तादिकोत्सवेषु ध्वजाः सर्वेषु शोभनाः । नगरे पुरे ग्रामादौ होलिकाया महोत्सवे ॥५॥ राजप्रवेशे नगरे नृत्यमाडे महोत्सवे । दिव्यवस्नपताका च तोरणर्वस्त्रसम्भवैः ॥६॥ ततस्ता वाद्यभवने कोटे नित्यं तथैव च । कपिशीर्षाकरे कुर्यात्पश्चैवाणथोच्यते ? ॥७॥ प्रतोल्याधालमालादिप्राकारे सर्वतस्तथा ! ध्वजामालाकुलं कुर्यात् कैलाससदृशोपमम् ॥ ८ ॥ अर्कयुद्धोद्भवस्थाने पुष्पप्राकारसंकुले। अषोडशद्वात्रिंशद् ध्वजा वै दिव्यवस्नतः ॥ ९ ॥ राजप्रवेशे कर्तव्यं प्रतोल्यग्रे सुशोभनम् । ध्वजा: स्तम्भगताः कीर्तिपताकाश्चैव हस्तिषु ॥ १०॥ जयन्तश्च प्रतापाख्यः कीर्त्यानन्दो महोत्सवः । एकच्छत्रस्तथा कायाः कीर्तिस्तम्भाश्च पञ्च हि ॥ ११ ॥ एकविंशतिहस्तैश्च जयन्तो नाम नामतः । उच्छ्रितश्च प्रतापस्त्रिचत्वारिंशत्करैस्तथा ॥ १२ ॥ पञ्चषष्ठिकरैश्चैव स भवेत्कीर्तिनन्दनः । सप्ताशीतिकरैश्चैव कामदस्तु महोत्सवः ॥ १३ ॥ नवोत्तरशतहस्तैरेकच्छत्रो भवेत्तथा । एवं पञ्च महास्तम्भा महाराजपुरे मताः ॥ १४ ॥ पृथुत्वं चतुर्थाशेन तत्पशेन चोर्ध्वतः । पञ्चमांशेनाधः कुर्यात् षडंशोच्छ्यमानतः ॥ १५॥ तत्पदंशेन ऊचेषु ऊर्ध्वमानं त्रिभमिकम् । वृत्ताकारं प्रकर्तव्यं घण्टाकलशसंयुतम् ॥ १६ ॥ दक्षिणे तत्र वै कीर्ति-पताका हस्तकास्तथा । आद्ये धर्मों द्वितीये तु यश, कीर्तिस्तदूर्ध्वतः ॥ १७ ॥ धर्मयश:कीर्तिदं स्यादेवं माडं त्रिभूमिकम् । पीठबन्धोपरि कुर्यादूर्व चैवं तु मेखला ॥ १८ ॥