________________
३५६
अपराजितपृच्छा
षड्गुणा च द्वादशान्तं शेषाः पञ्चगुणास्तथा । तथा त्रिभागविस्ताराः कर्तव्याः सर्वकामदाः ॥ १८ ॥ अर्धचन्द्राकृति चैव पक्षे कुर्याद् गगारकम् । वंशोचे कलशं चैव पक्षे घण्टाप्रलम्बनम् ॥ १९ ॥ वामरैर्भूषितं कुर्याद् घण्टा पक्षे विचक्षणः । पताका पापहारी च शत्रुपक्षक्षयंकरी ॥ २० ॥ वंशमयस्तु कर्तव्यः सारदारुसमन्वितः । निर्वणः सुदृढः कार्यों ज्वालादोषविवर्जितः ॥ २१ ॥ समग्रन्थिर्विधातव्यो विषमपर्वसमन्वितः। ध्वजादण्डप्रमाणेन पताकां च प्रलम्बयेत् ॥ २२ ॥ पृथुत्वमष्टमांशेन त्रिशाखाग्रविभूषितम् । शिखाः पञ्च प्रकर्तव्या ध्वजाग्रे च विचक्षणः ॥ २३ ॥ दिव्यवस्नपताका च अर्धचन्द्रश्च किंकिणीः ।
... ... घुर्घरान्वितम् ॥ २४ ॥ रेखा विभागीय सूत्रांशे पादवर्जितम् । ध्वजोन्नतिस्तु कर्तव्या ईशाने नैर्ऋतेऽथवा ॥ २५ ॥ प्रासादपृष्ठदशे तु प्रतिरथे च दक्षिणे। स्तम्भवेधस्तु कर्तव्यो भित्तेरष्टमांशके ॥२६॥ निलयो यस्य देवस्य तस्य देवस्य वाहनम् । ध्वजा तु कारयेश्चैव मुखबिम्बप्रमाणतः ॥ २७ ॥ यस्य यस्य हि देवस्य प्रासाद आलयो हि सः । आयुधं तस्य देवस्य मुखबिम्बप्रमाणतः ॥ २८ ॥ भ्वजच्छन्देषु पीठेषु अग्रस्थानेषु दर्शयेत् । त्रीणि वाहनस्थानानि कलशाग्रेषु चाऽयुधम् ॥ २९ ।। शैलजे चैव प्रासादे कलशस्य पदानुगम् । खादिरमिन्द्रकीलं तु प्रवेश्य कलशान्तिके ॥ ३० ॥ चतुरश्रमष्टानं वा वृत्तं वाऽयाप्रवर्तुलम् । सुदृढं निर्वणं कुर्याद् गर्भशुद्धं प्रमाणतः ॥ ३१ ॥ ध्वजावती स्तम्भिका च चतुरथा चाष्टांशका । - - - - - - - - वृत्तोर्वे चतुरधिका ॥ ३२ ॥ तदूर्व कलशं कुर्यात् सुरूपं लक्षणान्वितम् । विकुश्चनचालिके द्वे वंशाधारस्य बाह्यतः ॥ ३३ ॥ वंशबन्धाश्च कर्तव्या हस्ते हस्ते तथा पुनः। हस्ते सपादे सार्ध वा द्विहस्ते वाऽप्यथोच्यते ॥३४॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाय' प्रासादध्वजदण्डलक्षणाधिकारो नाम चतुश्चत्वारिंशदुत्तरशततमं सूत्रम् ।।