________________
(१४४) प्रासादध्वजदण्डलक्षणं चतुश्चत्वारिंशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अथातः संप्रवक्ष्यामि प्रासादध्वजलक्षणम् । दण्डोच्छ्रयप्रमाणं च पताकीमण्डकी तथा ॥ १ ॥ जया च विजया चैव वेणुकं घण्टचामरम् ! कलशो समाख्यातं कर्तव्यं सर्वकामदम् ॥ २॥ ध्वजाधारस्तम्भिका च कलशैश्च विभूषिता । वंशाधारो वज्रबन्धो वंशानां वेष्टनादिकम् ॥ ३ ॥ आदिशिलोद्भवं मानं ऊर्ध्वे च कलशान्तिके । तृतीयांशे प्रकर्तव्यो ध्वजादण्डः प्रमाणतः ॥ ४ ॥ अष्टमांशे ततो हीने मध्यमं शुभलक्षणम् । कनिष्ठं तद्भवेद् दण्डं ज्येष्ठतः पादवर्जितम् ॥ ५ ॥ प्रासादपृथुमानेन ध्वजादण्डं तु कारयेत् । मध्यमं दशमांशोनं कनिष्ठं चोनपञ्चमम् ॥ ६ ॥ मूलरेखाप्रमाणेन ज्येष्ठः स्याद् दण्डसम्भवः । मध्यमं द्वादशांशोनं शोनं कनिष्टकम् ॥ ७ ॥ एकहस्ते तु प्रासादे दण्डं पादोनमङ्गुलम् । अर्धाङ्गुला भवेद् वृद्धिः पञ्चाशद्धस्तकावधि ॥ ८ ॥ पृथुत्वं च प्रकर्तव्यं सुवृत्तं पर्वकान्वितम् । एकादिपर्वतः कार्यः पञ्चविंशतिकावधि ॥ ९ ॥ विषमपर्वोद्रमाश्च शस्ताः स्वस्वाभिधानतः । त्रयोदश स्युर्दण्डा वै पर्वभेदैस्तथोत्तमाः ॥ १० ॥ जयन्तः शत्रुमर्दनः पिङ्गलो नाम सम्भवः । श्रीमुखश्च तथानन्दस्त्रिदेवो दिव्यशेखरः ॥ ११ ॥ कालदण्डो महाकूट : सूर्याख्यः कमलोद्भवः । विश्वकर्मा समाख्याताः कर्तव्याः सर्वकामदाः ॥ १२ जयन्तस्त्वेकपर्वश्व त्रिपर्व: शत्रुमर्दनः । पिङ्गलः पञ्चपर्वश्च सप्तपर्वश्च सम्भवः ॥ १३ ॥ श्रीमुखो नवपर्वश्व आनन्दो रुद्रपर्वकः । त्रिदेवो विश्वपर्वश्च तिथिभिर्दिव्यशेखरः ॥ १४ ॥ मुनीन्दुभिः कालदण्डो महोत्कटो नवेन्दुतः । सूर्याख्यस्त्वेकविंशत्या कमलो वह्निनेत्रतः ॥ १५ ॥ तपर्वो विश्वकर्मा दण्डनामानि पर्वतः । शस्ताशस्तत्वमेतेषामभिधानगुणोद्भवम् ॥ १६ ॥ मण्डकी तस्य कर्तव्या अर्धचन्द्राकृतिस्तथा । पृथुदण्डसप्तगुणा हस्तादि पञ्चकावधि ॥ १७ ॥