________________
अपराजितपृच्छा तत्पदंशयुतं श्रेष्ठं कनिष्ठं तद्विहीनकम् । इत्थं मान समुद्दिष्टं कर्तव्यं सर्वकामदम् ।। १६ ॥ धर्मार्थकाममोक्षांश्च ईप्सितान् लभते ध्रुवम् । युक्तालङ्कारयुक् स्थाप्यं कलशं कामरूपकम् ॥ १७ ॥ उच्छ्यो नवभाग: स्यात् षड्भागा विस्तृतिस्तथा । अण्डकं चैकपादं सात् त्रिपदा पनपत्रिका ॥१८॥ ग्रीवा पादोनभागाच सपादं द्वे च कर्णिके।। मातुलिङ्ग त्रिभिर्भागः कर्तव्यं सर्वकामदम् ।। १९ ॥ उच्छ्यः कथितश्चैवं विस्तरं शणु साम्प्रतम् । पद्मपत्रं त्रिभिर्भागैस्तत्कन्दे च द्विभागकम् ॥ २०॥ अण्डकं च घटाकारं कुर्यात्षड्भागविस्तृतम् ।। ग्रीवा मध्ये द्विभागाभ्यां चतुर्भिः कर्णिकान्तरम् ॥ २१ ॥ साधं द्वथंशं बीजपूरमने निम्नं सुलक्षणम् । प्रमाणं तत्र चाख्यातं कलशे सर्वकामदम् ॥ २२ ॥
इति नागरप्रासादकलश: ॥ अत ऊर्ध्वं पुनश्चाऽन्यं प्रवक्ष्येऽहमनुक्रमम् । पूर्ववच्च समुत्सेधो विस्तरः पूर्वकल्पितः ॥ २३ ॥ पद्मपत्रनिभाकारा त्रिपदा पद्मपत्रिका । कर्णिका पद्मकं तु सपादः पद्मसम्भवः ॥ २४ ॥ द्विभागं चाण्डकं कुर्याद् वृत्ताकार सुलक्षणम् । ग्रीवा पादोनभागा स्याद् भागार्धे चार्कपट्टिका ॥ २५॥ लतिने व प्रकर्तव्या अर्ध वै पद्मपत्रिका । त्रिभागं बीजपूरं च अधिकस्य पद्माकृतिः ॥ २६ ॥ उच्छ्यः कथितश्चेत्थं विस्तरं शणु साम्प्रतम् । पद्मपत्रं त्रिभिर्भागर्द्धिभागा कर्णिका वृता ॥ २७ ॥ पद्माले पत्रिका चैव चतुर्भागा च विस्तरे । षड्भागमण्डकं चैव ग्रीवा मध्ये द्विभागिका ॥ २८ ॥ अर्कपट्टी चतुर्भागा सार्धव्यंशाच पत्रिका । सार्धद्वयं बीजपूरं निम्नाने पद्मकाकृति ॥ २९ ॥ पद्मनिबंधतिलकं मुक्तरत्नं सुवृत्तकम् । अर्केऽर्कपट्टिका कुर्यात् पद्मपत्रान उन्नता ॥ ३० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
कलशप्रमाणलक्षणाधिकारो नाम त्रिचत्वारिंशदुत्तरशततम सूत्रम् ॥
-