________________
(१४३) कलशप्रमाणलक्षणं त्रिचत्वारिंशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच--
अथातः संप्रवक्ष्यामि कलशोत्पत्तिलक्षणम् । भद्रं तु सर्वकल्याणं कलशं स्थापयेधथा ॥ १॥ क्षीरोदार्णवके पूर्व मध्यमाने सुगसुरैः। तत्रोत्पन्नं सुतिलकं कलशं कामरूपिणम् ॥ २॥ प्रतिष्ठादिषु सर्वेषु सर्वपुण्यमहोत्सवे । संस्थाप्य पुण्यकलशं सर्वविघ्नोपशामकम् ॥ ३॥ अभिषिक्तो दिव्यघटैः फलपल्लवसंयुतैः । सर्वपापविनिमुक्तः श्रियं प्राप्नोति मानवः ॥ ४॥ क्षीरार्णवे समुत्पन्नं प्रासादस्याग्रजातकम् । प्रासादो देवतानां च नरेन्द्राणां च हऱ्याकम् ।। ५॥ देवागारेषु सर्वेषु नृपाणां भवने तथा। संस्थाप्यं दिव्यकलशं विश्वकर्मवचो यथा ॥ ६॥ उत्पत्तिः कथिता चैवं लक्षणं शृणु साम्प्रतम् । विभक्तिभागसङ्ख्यानां प्रमाणे सूत्रमानतः ॥ ७ ॥ शैलजे शैलजं कुर्याद् दारुजे दारुजं तथा । धातुजे धातुजं चैव ऐष्टिके चैष्टिकं शुभम् ॥ ८॥ चित्रे चित्रं विधातव्यं हेमजं सर्वकामदम् ।। श्रेष्ठं सर्वत्र श्रेष्ठानां सुवर्णकलशध्वजम् ॥ ९ ॥ प्रासादस्याष्टमांशेन पृथुत्वं कलशाण्डके । षोडशांशैर्युतं श्रेष्ठं : द्वात्रिंशदंशतः ॥ १०॥ मूलरेखा पञ्चमांशे पृथुत्वं तस्य कारयेत् । घण्टा विस्तारपादेन तत्पादेन युता पुनः ॥ ११ ॥ इत्थं कलशविस्तारमुच्छ्यस्तस्य सार्द्धतः । नागरे लतिने शस्तं सान्धारे मिश्रके तथा ॥ १२ ॥ विमाननागरे छन्दे विमानपुष्पके तथा। धातुजे रत्नजे चैव रथारोहे च दारुजे ॥ १३ ।। शैलजे च चतुर्थाशमैष्टिकादौ समस्तके। इत्युक्तं कलशं चैव सर्वकामफलप्रदम् ॥ १४ ॥ वराटे द्राविड़े चैव भूमिजे च विमानके। प्रासादस्य तु षष्ठांशे समस्तवलभीषु च ॥ १५ ॥