________________
(१४२) प्रासादघण्टामलसारकनिर्णयो नाम वाचत्वारिंशदुत्तर
शततमं सूत्रम् ॥ विश्वकर्मोवाच
प्रतिरथावुभौ मध्ये वृत्ते चामलसारके । तत्तद्विभक्तिभागं च कथये यस्य यादृशम् ॥१॥ उदये तु तदूचे च विभक्ते चतुरंशतः।। ग्रीवा पादोनभागा स्यात्सपादं च तथाण्डकम ॥२॥ चन्द्रिका चैकभागेन भागा चामलसारिका । प्रासादस्याऽष्टमांशेन पृथुत्वं कलशाण्डके ॥३॥ युग्मप्रतिरथे कुर्यात् सुरतारं शिखरोद्भवे । चन्द्रस्य तु च संस्थाने कुर्यादामलसारिकाम् ॥ ४॥ द्वितीया पूर्वसंस्थाने शोषयेच्चार्धभागतः। नागरे लतिने कुर्यात् सान्धारे चैव मिश्रके ॥५॥ वासोवें चोदयं कृत्वा विभक्तं पञ्चभागिकम् । कण्ठाग्रीवाकुडलं च पद्मच्छत्रोपच्छत्रकम् ॥ ६॥ विमाने पुष्पके भौमे कुर्याद्विमाननागरे । इत्युक्तं चामलसारं प्रयुक्तं वास्तुवेदिभिः ॥ ७ ॥ द्विरभागविस्तारे उच्छ्रयो दशभागतः । अन्त:पत्रं भवेद्भागं भागार्धे चैव पट्टिका ॥ ८॥ कर्णस्तु सार्धभागश्च तदूधै पद्मपत्रिका | स्कन्धः षड्भागिको ज्ञेय उच्छ्ये भागसङ्ख्यया ॥ ९ ॥ षड्भागश्च भवेत्स्कन्धो निर्गमः पञ्चभागिकः । द्राविडी च भवेद् घण्टा नासिकोपाङ्गशोभिता ॥१०॥ पृथुत्वं तु द्वादशांशमुच्छ्ये नवभागिकम् । कर्णस्तथा चैकभागः स्कन्धाधं चाष्टभागिकम् ॥ ११ ॥ अष्टाधोवें षोडशाश्रा ततो द्वात्रिंशदश्रका । मन्दारपुष्पकाकारा कार्या वराटघण्टिका ॥१२॥ वलभीः संप्रवक्ष्यामि आमलैमिदक्षिणेः।। उदयश्चैव षड्भागो विस्तारश्वाष्टभागकः ॥ १३॥ अधो भागे भवेत्कण्ठो वृत्तं चैव तु भागिकम् । कपाली ? भागपादं तु त्रिपाद कीर्तितं मुखम् ॥ १४ ॥ द्विभागोच्छूिता शाखा च विस्तरे अष्ट अन्तिका। विषमा मुकुटा कार्या पडिश्च विषमा स्मृता ॥ १५ ॥ उभयामलमध्ये तु गजपृष्ठाकृतिस्तथा । कलशाश्च त्रयः कार्या आयते च शुभप्रदाः ॥ १६ ॥ सिंहावलोकने कुर्याद् घण्टां मन्दारपुष्पकम् । अर्कपुष्पोद्भवाः शस्ता दारुजे पुष्पकादयः ॥ १७ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां प्रासादघण्टामलसारकनिर्णयाधिकारो नाम द्वाचत्वारिंशदुत्तरशततमं सूत्रम् ॥