________________
३६०
अपराजितपृच्छा काश्चनेन विमानेन घण्टावितानशोभिना । स याति देवनिलयं सेव्यते चाऽप्सरोगणैः ॥ १६ ॥ शिल्प्याचार्ययजमाना विष्णुलोकगतास्तथा । आत्मवंशं भूमितले तारयन्ति भवार्णवात् ॥ १७ ॥ बलीवर्दकर्मकराः सर्वे यान्ति शिवालयम् । मर्त्यलोके वृक्षशिलास्तिष्ठेयुश्च शिवानुगाः ॥ १८ ॥ बलीवईधरा: सर्वा: स्वेच्छया चैव सर्वतः। गच्छन्ति दिव्यरूपेण त्रिषु लोकेषु मध्यतः ॥ १९ ॥ लभन्ते चेप्सितं राज्यं स्वर्ग वा भूमिशासनम् । अमितां लभते लक्ष्मी यष्टा सुरैर्निष्कण्टकम् ॥ २०॥ यजमानशिल्प्याचार्याः शिवसान्नि गाः सदा । अधस्ताच्च पुरे रम्ये कैलाससदृशे तथा ॥२१॥ दिव्यरत्नमये चैव प्राकारैः काञ्चनैर्युते । सप्तकोटिगणैर्युक्ताश्चन्द्रार्कतारकावधि ॥ २२ ॥ सूत्रकारापवरका यजमानहितैषिणः । सुधया रचनालेपे यान्ति ते परमां गतिम् ॥ २३ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छाय ध्वजामाहात्म्यनिर्णयाधिकारो नाम षट्चत्वारिंशदुत्तरशततमं सूत्रम् ।।