________________
३४५
अपराजितपृच्छा स्कन्ध्रस्थाने कलाचारो रेखान्तं साधयेत्तथा । समः सपादः सार्द्धश्च पादोनो द्विगुणस्तथा ॥ १५ ॥ द्विगुणश्च सपादौ द्वौ साधौं पादोनकास्त्रयः । त्रिगुणोऽथ सपादोऽसौ सार्थः पादोनवेदकः ॥ १६॥ चतुर्गुण; सपादोऽसौ मार्धः पादोनपञ्चकः । इति षोडशधा चारं त्रिखण्डाद्यासु लक्षयेत् ॥ १७ ॥ अष्टाद्यावष्टषष्ठ्यन्तं चतुर्वद्धया कला: क्रमात् । न्यसेद्रेखासु ताभ्यस्स्युः षट्पञ्चाशच्छतद्वयम् ॥ १८ ॥ त्रिखण्डायां तु रेखायामादिखण्डे कलाष्टकम् । द्वितीये च तृतीये च अष्टौ चारा: समा इमे ॥ १९ ॥ षोडशसु त्रिखण्डासु आदिखण्डे कुलाष्टकम । चतुर्विंशतिधी स्कन्धे समचारसमुच्छितिः॥ २० ॥ प्रथमाया आदिखण्डे कला अष्ट प्रयोजिताः । द्वितीये वसुसङ्ख्याश्च तृतीयेऽष्टौ तथैव च ॥ २१ ॥ चतुर्विंशतिकाश्चैवं समा चारा: प्रकीर्तिताः । द्वितीया च भवेद्रेखा सपादचारी संज्ञिता ॥२२॥ स्कन्धे धिष्ण्यांशकैर्भक्ते वस्वदशसंमिताः। क्रमात्कलात्रिखण्डेषु सपादचारिका तु सा ॥ २३ ॥ भक्ते स्कन्धे च त्रिंशद्धा भवेद्रेखा तृतीयका । प्रथमेऽष्ट दिगूर्वं च स्कन्धे द्वादश चोन्मिताः ॥ २४ ॥ स्कन्धे कलास्त्रयस्त्रिंशद्यत्र खण्डेष्वपि क्रमात् । वसुरुद्रेन्द्रसङ्ख्या सा पादोनद्विकचारिका ॥ २५ ॥ स्कन्धे षट्त्रिंशदशे च वसुसूर्यद्विरष्टभिः । स्कन्धे तु नवरामांशेऽष्टविश्वाष्टदशोम्मिताः ॥ २६ ॥ अधः खण्डे तु यश्चार ऊर्ध्व खण्डेऽयसौ भवत् । समं सा लभते चारं सपादं वा पदाधिकम् ॥ २७ ।। समं सपादं साधं वा यावत्पादोनपञ्चकम् । त्रिखण्डादौ खण्डवृद्धयाऽष्टादशखण्डकावधि ॥ २८ ॥ आदिखण्डे चतुर्वृद्धिर्ध्वखण्डेषु तद्गुणा। प्रतिखण्डे षोडशभिः षट्पञ्चाशच्छतद्वयम् ॥ २९ ॥
कलाममो स्कन्धस्थाने कलाः पञ्च रेखाणां तु गुणोदिताः । सिद्धा तुर्या कृता रेखा ऊ चामल सारिका ॥ ३० ॥
।