________________
(१३९) रेखानिर्णयो नामैकोनचत्वारिंशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
अथात: संप्रवक्ष्यामि रेखाभेदं पृथग्विधम् । सर्वाः कलाः समुत्पन्ना रेखा; षोडश कीर्तिताः ॥१॥ त्रिखण्डादौ खण्डवृद्धया खण्डान्यष्टादशावधि । षोडशैव समा चारा: कलादौ परिकीर्तिताः ॥२॥ अष्टादावष्टषष्ठ्यन्तं चतुर्वृद्धिक्रमेण तु । रेखाश्चैवं प्रयोक्तव्याः षट्पञ्चाशच्छतद्वयम् ॥३॥ शशिनी शान्तिनी चैव लक्ष्मिणी कामिनी तथा । पुष्पिणी च शुभा शान्ता आल्हादा कुमुदा तथा ॥ ४॥ सुखासनी शालिनी च विद्याशोधनिका तथा । नाहिनी दीपिनी सौम्या अमृता षोडशी तथा ॥ ५॥ पकैकस्या: स्वच्छन्देषु षोडशैव प्रकीर्तिताः। रेखाश्चैवं प्रयोक्तव्याः षट्पञ्चाशच्छतद्वयम् ॥ ६ ॥ शशिन्याद्यास्त्रिखण्डाश्च रेखा वै षोडशोन्मिताः । शान्तिन्याधाश्चतुष्खण्डाः षोडशैव प्रकीर्तिताः ॥७॥ लक्ष्मिण्याद्या पञ्चखण्डा उक्ताश्चैवं तु षोडश । कामिन्याद्याश्च षट्खण्डा रेखा: षोडश कीर्तिताः ॥ ८॥ पुष्पिणाद्याः सप्तखण्डाः शुभाद्याश्चाष्टखण्डकाः । शान्ताद्या ग्रहखण्डा आल्हादाद्या दशखण्डकाः ॥९॥ कुमुदाद्या रुद्रखण्डाः सुखासन्यादिकास्ततः। शङिन्याद्या विश्वखण्डा विद्याशोधादिकास्ततः॥ १०॥ नाहिन्याद्यास्तिथिखण्डा दीपिन्याद्या: कलोन्मिताः । सौम्याद्याः सप्तदशभिर्वस्वेकैरमृतादिकाः ॥११॥ शशिन्याद्या अमतान्ताः षोडशैव प्रकीर्तिताः। एकैकस्याः स्वच्छन्देषु षोडशैव विनिर्गताः ॥ १२ ॥ षोडशाथ द्विरष्टौ च षट्पञ्चाशच्छतद्वयम् । सङ्ख्या प्रोक्ता च रेखाणां वास्तुविद्योद्भवा बुधैः ॥ १३ ॥ रेखापृथुत्वादुदव: सपादः कर्णतोऽपि वा। दिग्भक्ते च तलच्छन्दै स्कन्धं कुर्यात् षडंशकम् ॥ १४ ॥
ख