________________
३४३
अपराजितपृच्छा अञ्चिता कुञ्चिता शस्या निधोदिनक्रमागता। मध्यस्था भ्रमा सभ्रमा षट्कोल्यः परिकीर्तिताः ॥ १६॥ प्रासादे दशधा भक्त भूमिसीमा विचक्षणः। अञ्चिता च द्विभागा स्यात् त्रिभागा कुञ्चिता तथा ॥ १७ ॥ शस्या चैवं चतुर्भागा त्रिधा चोक्तक्रमागता । -- - - - - स्वारघात - - - - | प्रासादपदमध्यस्था भ्रमा सानिमागतः । अर्धे तु संभ्रमा कार्या प्रासादस्य प्रमाणतः ॥ १० ॥ अग्रे कोली कपोलं तु शुकनासस्तु नासिका। . सान्धारे स्तम्भरेखा च कर्तव्या मध्यकोष्टके ॥ २० ॥ भ्रमणी बाह्यभित्तिश्च क्रमासङ्ख्यां प्रकल्पयेत् । शङ्गोरुशृङ्गप्रत्यक्षं गणयेदण्डकानि च ॥ २१ ॥ सिंहकर्ण तवेङ्गीतिलेकं प्रासादभूषणम् । कर्ण रथं प्रतिरथं सुभद्रं प्रतिभद्रकम् ॥ २२ ॥ सलिलान्तरमार्गेण शुद्धान्येवाङ्गसङ्ख्यया । इहैवाङ्गप्रमाणेन सपाद शृङ्गमुच्छ्रये ॥ २३ ॥ स्कन्धस्या|दये घण्टा सर्वकामफलप्रदा। प्रहारांशं पुनर्दद्यात् पुनः शृङ्गाणि कारयेत् ॥२४॥ शृङ्गे शृङ्गे च प्रासादं विभक्तमिव कल्पयेत् । समस्तानामधोभान कुर्याच्छाई विभूषितम् ॥ २५॥ अधा शृङ्गे पक्षभागे ऊर्ध्वशङ्गादमागमम् । उरुशृङ्गं यदा लुप्त रेखाकर्णजलान्तरैः ॥ २६ ॥ तत्र कारयितुः पीडा कुर्तुश्चापि महद्भयम् । मूलशिलात उदये प्रोसीद कलशान्तके ॥२७॥ भागे विभक्ते विंशत्या अधऊर्ध्व प्रकल्पयेत् । अष्टभागोदयो ज्येष्ठः सार्द्धमष्टौ च मध्यमः ॥२८॥ कनिष्ठो नवभिभागौस्त्रिधा मण्डोवरो मतः । शेषा ये ऊर्ध्वभागास्तैः कर्तव्यः शिखरोदयः ॥ २९ ॥ इदं मानं समुद्दिष्टं प्रोक्तं वै वास्तुवेदिभिः इतिसूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां प्रासादस्योर्ध्वमाननिर्णयाधिकारो नामाष्टात्रिंशदुत्तरशततमं सूत्रम् ॥