________________
(१३८) प्रासादस्योर्ध्वमाननिर्णयो नामाष्टात्रिंशदुत्तरशततम सूत्रम् ।
विश्वकर्मोवाच
अथात: संप्रवक्ष्यामि प्रासादस्यो लक्षणम् । तलच्छन्दविभत्क्या तदूर्ध्वमानं विशेषतः ॥ १॥ विभक्ते तु तलच्छन्दे शिखरोज़ तु कारयेत् । , शिखरे शुकामसूत्रे उच्छ्रयो मण्डपस्य च ॥ २ ॥ प्रासादकाग्रशुकवन्मण्डपाग्रे चतुष्किका। जगत्युत्तानपट्टं च शालाद्याः परितः क्रमात् ॥ ३॥ जगत्यां लोपयेच्छालां शालायां मण्डपं तथा। मण्डपे नैव प्रासादो ग्रस्तश्चैद् दोषकारकः॥ ४ ॥ एवमादिगुणाः प्रोक्ताः सूत्रशास्त्रार्थबोधकैः । विशिष्टगुणमाख्यास्थे प्रोक्तं वै वास्तुवेदिभिः ॥५॥ निरन्धारेषु सर्वेषु नागरे मिश्रकेऽपि वा । विमाननागरच्छन्दे कुर्याद्विमानपुष्पके ॥६॥ भित्ते:पृथुत्वे यन्मानं तच्छृङ्गक्रम ऊर्ध्वतः। गर्भमध्ये यदा रेखा महामभक्षयावहा ॥ ७ ॥ एकद्वित्रिक्रमा उक्ता भित्तिमध्ये यथोत्तरम् । अधिका नेध कर्तव्या पीडिते च कुलक्षयः॥ ८॥ एकादिग्रहसयान्तमुर:शृङ्ग क्रमोदतम् । अधःस्थेन भवेलुप्तमुर:शृङ्गं तु पश्चिमम् ॥ ९ ॥ सप्त सप्त ह्यधोलुप्ता ऊर्चस्थांशास्त्रयोदश । एकद्धया घण्टाबाहो स्कन्धे स्कन्धं तु कारयेत् ॥ १० ॥ एकैकं युक्तिसूत्रण या सर्वकामदम् । सूत्रयित्वा क्रमयोग मूलसूत्रानुसारतः ॥ ११॥ छन्दभेदो न कर्तव्यो जातिभेदो न वा पुनः । उद्भवेच्च महामर्म जातिभेदे कृते सीत ।। १२॥ यदि छन्दे नास्ति छन्दो नाऽऽद्यमाये प्रतिष्ठितम् ?। तत्प्रासादफलं नास्ति ततो मोक्षो न विद्यते ॥ १३ ॥ प्रासादस्य पुरो-भागे निर्वाणं मूलशुनकम् । तग्रे शुक्वकीय मुरुशृङ्गाधनकमात् ॥ १४ ॥ एकत्रिपञ्चसप्ताकसिंहस्थानानि करियेत् । तेषां विभक्तिसूत्र तु कोलिकायामसूत्रतः ॥ १५॥
मरस
सा
Neha
क.