________________
३४१
अपराजितपृच्छा सप्तत्रिंशे उमारुद्रं व्यधिके बुद्ध एव च । एकचत्वारिंशके च ब्रह्मयुग्मं च कारयेत् ॥ १५ ॥ दुर्वाससं च द्वयधिके अगस्त्यं नारदं तथा। पञ्चचत्वारिंशके च लक्ष्मीनारायणं विदुः॥ १६ ॥ सप्तचत्वारिंशके च स्थाप्यो धाता यथाविधि । एकोनपञ्चाशत्तमे गणेशं च सरस्वतीम् ॥ १७ ॥ ततश्च द्वयधिके कुर्याच्छ्रियं पद्मासनां स्थिताम् । त्रिपश्चाशत्तमे कुर्याद्धरसिद्धिं च कामदाम् ॥ १८ ॥ ब्रह्मविष्ण्वोश्च सूर्यस्य वीतरागस्य च क्रमात् । पञ्चपञ्चाशत्तमें च ऊर्ध्वा दृष्टिसंस्थितिः ॥ १९ ॥ रुद्रार्चा ततो द्वयधिके चण्डिकैकोनषष्ठिके। द्वयधिके भैरवश्चैव वेतालाश्च त्रिषष्टिके ॥ २० ॥ तवं च पदं शून्य महामर्म क्षयावहम् । पादेऽायाः कटियावत् कार्या वाहनदृक् तथा ॥ २१ ॥ धर्मार्थकाममोक्षाणां दृष्टिस्थापनपूजनात् । सर्वार्चादृष्टिसंस्थान भुक्तिमुक्तिप्रदं भवेत् ॥२२॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
द्वारदृष्टिनिर्णयाधिकारो नाम सप्तत्रिंशदुत्तरशततम सूत्रम् ।