________________
(१३७) द्वारदृष्टिनिर्णयो नाम सप्तत्रिंशदुत्तरशततम सूत्रम् ॥
विश्वकर्मोवाच
- - - - - - - - तं सोदुम्बरान्तकम् । स्थापयेच्छिवलिङ्गानि द्वारार्धं न व्यतिक्रमेत् ॥१॥ द्वारोच्छ्यस्य मध्यं तु वसुभागविभाजितम् । शुभाशुभदृष्टिस्थान हिताहितफलप्रदम् ॥२॥ पदमेकैककं भूयो ह्यष्टधा प्रविभाजितम् । 'चतुःषष्ठयंशोच्छ्रितं स्यादुदुम्बरदशान्तकम् ॥३॥ विषमांशेषु सर्वेषु देवतादृष्टियोगतः। दृष्टिस्थानानि द्वात्रिंशद् द्वात्रिंशच्च विलोमतः ।। ४ ॥ विषमस्था शुभा चैवं विषमे चाशुभोदमः । दृष्टिदोषविपाकेन स्थाननाशो धनक्षयम् ॥ ५॥ नगरे च पुरे ग्रामे राष्ट्र तीर्थे तपोवने । वाहदृष्टिहतं यच्च न पुनस्तत्प्ररोहति ॥ ६ ॥ उदुम्बरादितः प्रोक्तमुत्तरङ्गगोदराद्धः। देवताक्रमसंस्थानं कथयामि यथाविधि ॥ ७॥ आदिः सष्टिश्च तत्त्वं व आधिष्ठं चायुर्लक्ष्यकम् । विशा प्रज्ञा शान्तिः शिवोकानि तत्त्वानि वै नव ॥ ८॥ प्रथमे च भवेदादिः सृष्टिश्चैव तृतीयके । पञ्चमे च भवेत्तस्वमधिष्ठं सप्तमे स्थितम् ॥९॥ आयु:स्थानं च नवमे लक्ष्यमेकादशे स्थितम् । त्रयोदशे भवेद्विज्ञा प्रज्ञा पञ्चदशस्थिता ॥ १०॥ शान्तिः सप्तदशस्था च शिवतत्वकसंस्थितिः । व्यक्ताव्यक्ते तदूर्व तु क्रमेण च सुसंस्थिते ॥ ११ ॥ व्यक्तपदं च विशेयमेकोनविंशत्यंशके । ध्यक्ताव्यक्तं त्वेकविंशे त्रयं विशे च व्यक्तकम् ॥ १२ ॥ पञ्चविशे फालना स्यात् तत्र कामफलोदयः । सप्तविंशे समुत्सेधे कुर्याच जलशायिनम ॥ १३ ॥ द्वयधिके वैनतेयं च मातरस्त्वेकत्रिंशके। प्रयस्त्रिंशे भवेद्यक्षो त्यधिके भृङ्गशूकरः ॥ १४ ॥