________________
अपराजितपृच्छा सर्व लिङ्काश्रिता देवा लिङ्गदेवाधितं शुभम । अन्योन्यत: प्रदातव्यं लिङ्गं नाऽन्यत्र दापयेत् ॥ १४ ॥ हरिब्रह्मा च सविता शक्रश्चैव स्मरस्तथा । स्कन्धसूत्रस्य चाऽधस्तात् स्थाणुसूत्रप्रमाणतः ॥१५॥ कटिमेदसमस्थाने रतिमूर्तिप्रकल्पना । शकुचक्रधरा चैव ऋषयो दण्डपिङ्गलौ ॥ १६ ॥ रतिस्कन्धसमौ तौ तु अधस्ताच्चिबुको तथा । एकपृष्ठोपरि कार्या न पृष्ठे न च विस्तृताः ॥ १७ ॥ पादपद्माप्रतः सूत्रं मध्य मध्येऽपि जायते। नायकश्च रतिश्चैव क्रमशो युक्तिमाश्रितौ ॥ १८॥ पादपृष्ठसमं सूत्रमर्चामानेन कारयेत्। अपंधा भाजयेत् सर्वमुपपीठोपरिस्थितम् ॥ १९ ॥ ही भागौ शङ्गमुत्सेधे पनं कुर्यात् सुवत्तकम । पद्मपीठं तु भागेन भागो द्वौ कण्ठकोच्छ्रयः ॥ २० ॥ पीठं भागत्रयं कुर्यात् प्रवेशान्तरनिर्गमम् । पादं पद्मसमुत्सेधे ऊरुजानुहृदिस्थितम् ॥ २१ ॥ सुशङ्ग केशराढ्यं च अपत्रं सकर्णकम् । एवंविधं प्रकर्तव्यं सूर्याग्ने व्योमलक्षणम् ॥ २२ ॥ पीठं च मण्डलं प्रोक्तं प्रतिधारा च नासिका। वेदी व्योम तथा कुण्डं पञ्चाङ्गं सूर्यमण्डलम् ॥ २३ ॥ मेरुस्तस्याऽग्रतः कार्यस्त्रिगर्भान्तरसंस्थितः। पञ्चसप्तनवान्तःस्थो हत ऊर्ध्वं न कारयेत् ॥ २४ ॥ हसो वषोऽथ गरुडो व्योम वै ज्येष्ठमध्यतः।। इषुस्थानेषु कर्तव्यं नाऽन्यपदाश्रितं भवेत् ॥ २५ ॥ अर्चायामेन विस्तीर्ण सपादं सार्धमेव च । विस्तरोच्छ्रयतुल्यं च उपपीठं त्रिभागतः ॥ २६ ॥
इति व्योमलक्षणाधिकारः। इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्थोक्तापराजितपृच्छायां
व्योमलक्षणाधिकारो नाम षट्त्रिंशदुत्तरशततमं सूत्रम् ॥