________________
(१३६) त्रिपुरुषप्रतिष्ठासूर्यमण्डलादिव्योमलक्षणं षट्त्रिंशदुत्तरशततमं
सूत्रम् ॥
विश्वकर्मोवाच
ब्रह्मा विष्णुस्तथा रुद्रस्त्वेकस्मिन्वा पृथग्गृहे । भूयो न्यूनन्यूनतश्च रुद्रो हरिः पितामहः ॥१॥ अंशोनश्च हराद्विष्णुर्विष्णोरर्धे पितामहः । वामदक्षिणयोगेन मध्ये रुद्रं च स्थापयेत् ॥ २॥ संस्थाप्य च शुभ कर्ता नपाद्याः सुजनाः प्रजाः । प्रकर्तव्यं त्यज विप्राद्याः समेयान्ति समन्वितम् ? ॥ ३॥ ताभ्यां ह्रस्वो यदा रुद्रः क्षयो राशि जने मृतिः । राष्ट्रक्षोभो नृपयुद्धं ब्रह्मविष्णू समौ यदा ॥४॥ अनावृष्टिजने मारिब्रह्महस्वे जनार्दने । विपर्यये नृपाद्याश्च अस्वस्था भ्रमति प्रजा ॥ ५ ॥
इति न्यूनाधिकमान । आदौ ब्रह्मा हरिमध्ये चाऽन्ते रुद्रो यदा भवेत् । ब्राह्मणोपद्रवो लोकास्तथा स्युर्दुष्टचेतसः ॥ ६ ॥ विष्णुस्थाने यदा ब्रह्मा ब्रह्मस्थाने जनार्दनः । तत्र राजभयं विद्यादुद्वेगमनसो जनाः ॥ ७ ॥ मध्ये ब्रह्मा हरिश्चान्ते आदौ रुद्रः प्रतिष्ठितः। संहारो जायते तत्र व्याधिशोकाकुलो जनः ॥ ८ ॥ ब्रह्मणश्च यदा विष्णुर्विष्णुस्थाने पितामहः । तस्करोपहता लोका उद्यूत्तजनसंकुलाः ॥९॥ रुद्रस्थाने हरिश्चैव हरिर्यत्र हरस्तथा। जायन्ते स्त्रीजिता लोका अधर्मरतचेतसः ॥ १०॥ ब्रह्मस्थाने यदा विष्णुर्विष्णुस्थाने चतुर्मुखः । रुद्रः स्वस्थानसंस्थस्तु सर्वकामफलप्रदम् ॥ ११ ॥ रुद्रवक्त्रत्रिभागोनो हरिरर्धः पितामहः । तत्तुल्या वै उमादेवी सुखदा सर्वकामदा ॥ १२ ॥ न्यूनाधिका हरिब्रह्मा उमादेवी च शङ्करः । सर्वार्थाश्च गतास्तत्र यथोक्तफलमादिशेत् ॥ १३ ॥
इति त्रिपुरुषस्थानप्रतिष्ठा ।