________________
३३७
अपराजितपृच्छा वीतरागो विघ्नराजे यथोक्तं जिनशासने । मातृमण्डलमध्ये तु समस्ता देवतास्तथा ॥ १७ ॥ पर्यासनोर्चस्थानि विष्णुरूपाणि यानि च । विष्णुस्थाने जलशायी वाराहस्तत्पदे स्थितः ॥ १८॥ विष्णुरूपाणि सर्वाणि नवमे च पदे तथा । कल्की च रममाणश्च पदे वाराहके तथा ॥ १९ ॥ अर्धनारीश्वरं देवं रुद्रस्थाने च स्थापयेत् । हरिशरोमामूर्ति विष्णुस्थाने प्रकल्पयेत् ॥ २० ॥ सप्तमे ब्रह्मसंस्थाने मिधमूर्ति च स्थापयेत् । त्रिदेवं मिश्येश्चैव हरिहरपितामहम् ॥ २१ ॥ चन्द्रार्कपितामहं च स्थापयेदभास्करे पदे । वेदांश्च ब्रह्मसंस्थाने ऋषीन्वै भास्करे पदे ॥ २२ ।। अत: परे तु ये देवा अन्थेषूक्ता महत्तरैः । । सान्निध्यं सर्वकाले तु परिकरस्य च दापयेत् ॥ २३ ॥
इति प्रतिमापादसंस्थानम् । लिङ्गं प्रतिष्ठास्थानं च वर्णानां हितकामदम् । प्रतिष्ठाप्यं प्रकृतिभिः शाश्वतं च शुभप्रदम् ॥ २४ ॥ यवैर्यवार्धेस्तु किञ्चित् कर्तव्यं च दिशाश्रितम् । प्राच्यां शुभप्रदं विप्रे क्षत्रियाणां तु दक्षिणे ॥ २५ ॥ वारुणे वैश्यजातीनां शुद्राणां तु तथोत्तरे । चतुष्टयं समं ख्यातं चतुर्वर्णफलप्रदम् ॥ २६ ॥ शाश्वतं सर्ववर्णानां शिल्पिसंतोषकारकम् । ईशाम्यां यत् स्थित लिङ्गं पूज्यं चन्द्रार्कतारकैः ॥ २७ ॥ अग्न्युपजीविभिलौकैराग्नेयीं दिशमाश्रितम् । वेश्याकुलालरजकैर्वस्त्ररङ्गकभण्डकैः ॥२८॥ नैर्ऋतीमाश्रितं लिङ्गं शाश्वतं च शुभप्रदम् ।। वायव्ये नर्तकनटैर्लिङ्ग स्थाप्यं विचक्षणैः ॥ २९ ॥ हस्तार्धं च ततोय च ततोऽप्यधैं त्रिभागतः । तस्यार्धं च तदर्धार्धमेतत् किश्चित्प्रमाणतः ॥ ३०॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितच्छायां
देवतापदसंस्थानाधिकारो नाम पञ्चत्रिंशदुत्तरशततमं सूत्रम ।।
४३ अ.