________________
(१३५) देवतापदसंस्थानो नाम पञ्चत्रिंशदुत्तरशततमं सूत्रम् ॥ विश्वकर्मोवाच
प्रासादानां समस्तानां विभक्तिर्गर्भभित्तितः । गर्भमध्ये सर्वतश्च देवताः क्रमतः स्थिताः॥१॥ चतुर आयते च वृत्ते वृत्तायते तथा । अष्टाधे च तथा प्रोक्तो गर्भ: प्रासादरूपतः ॥ २॥ ब्रह्मस्थानादिगर्भ च भित्तिपर्यन्तमेखलम् । मण्डलं भवनाकारं विभक्तिक्रमच्छन्दतः ॥ ३ ॥ अष्टाविंशतिसङख्याकं मध्यगर्भानुरूपतः । क्रमादेकैकदेवानां निवासो मण्डले स्थितिः॥४॥ प्रथमं मण्डलं चैव यद् भवेद् गर्भमध्यतःः। शिवस्य परमं स्थानं तन्मेरोरिव मध्यतः॥५॥ यवैर्यवाद्वैस्तु किश्चित् कुर्यादीशानमाश्रितम् । समस्तैव मण्डलार्धं ततः सूत्रेषु देवताः ॥ ६ ॥ पादपद्माग्रसंस्थाने स्वकीयपदमध्यतः । पदस्य गर्भसंस्थाने पार्श्वगर्भाधादिकम् ? ॥ ७ ॥ कर्णपिप्पिलिकासूत्रं भुजगहें तु संस्थितम् । पादगुल्फगर्भसूत्रे पदगर्भेषु देवता ॥८॥ द्वितीये हेमगर्भश्च नकुलीशस्तृतीयके। चतुर्थे चैव सावित्री रुद्रस्स्यात् पञ्चमे पदे ॥ ९ ॥ षष्ठे तथा षण्मुखश्च सप्तमे च पितामहः । अष्टमे वसुदेवश्च नवमे च जनार्दनः ॥१०॥ विश्वदेवाश्च दशमे अग्निरकादशे तथा। द्वादशे भास्करश्चैव दुर्गा चैव प्रयोदशे ॥११॥ चतुर्दशे विघ्नराजो ग्रहाः पञ्चदशे तथा । षोडशे मातृकाश्चैव गणास्सप्तदशे तथा ॥ १२॥ अष्टादशे भैरवश्च क्षेत्रपालस्ततोऽधिके । यक्षराजो विंशतिके हनुमानेकविंशके ॥ १३ ॥ द्वाविंशे च भृगुश्चैव घोरश्चैव ततोऽधिके । चतुर्विशे भवेद् दैत्यो राक्षसश्च पदेऽधिके ॥ १४ ॥ पिशाचश्चैव षडिशे भूतानि च तथाऽपरे । तदने च पदं शून्यं क्रमेण मण्डलस्थिताः ॥ १५॥ विष्णुस्थाने उमादेवी ब्रह्मस्थाने सरस्वती। सावित्री मध्यदेशे तु लक्ष्मी सर्वत्र दापयेत् ॥ १६॥