________________
अपराजित पृच्छा
प्रशस्तं च समुत्सेधे गृहस्यार्श्वभूरङ्गका ? । श्रियं शान्तिमीप्सितं च कर्तृकावर कावुभौ ॥ १४ ॥
इति देवतादिग्मुखम् ।
उक्तमानाधिकं द्वारं धनधान्यविनाशकम् । पीडां प्रकुरुते वलितं शत्रुविग्रहम् ॥ १५ ॥ मृत्युदं चाधोविपुलं पूजाहानिकृदृर्ध्वतः । यवमध्यसमं द्वारं सदा स्यात्कलिकारकम् ॥ १६॥ स्त्रीरोगकृन्यून शाखं मध्यस्तम्भस्य मानतः । हीनं पीडां प्रकुरुते अधिकं च धनक्षयम् ॥ १७ ॥ दारुजे तु विलोमे च पूजाहा निर्धनक्षयः । विपरीतं कपाटं तु सदा स्यात्कलिकारकम् ॥ १८ ॥ तथोर्ध्वमूलाधोग्रा च विलोमा द्वा:कपाटिका । भ्रमच्छन्दकपार्ट च कलिकृद्विपरीतकम् ॥ १९ ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्ता पराजित पृच्छायां देवतादिग्भागमुखद्वारदोषाधिकारो नाम चतुस्त्रिंशदुत्तरशततमं सूत्रम् ॥
३३५