________________
(१३४) देवतादिग्भागमुखधारदोषो नाम चतुस्त्रिंशदुत्तरशततमं
सूत्रम् ॥
विश्वकर्मोवाच--
यतो मुखश्च यो देवो यथा वै यत्र पश्यति । तदहं कथयिष्यामि दृष्टा शास्त्रार्थनिश्चयम् ॥ १॥ नोत्तराभिमुखाः कार्या न देवा दक्षिणामुखाः ।। आदिदिशोन्मुखः कार्य आदिदेवो दिवाकरः ॥२॥ चतुर्दिशामुखो ब्रह्मा कार्यो वा पूर्वदिमखः । शम्भुणस्तथा धाट्यो मुखलिङ्गं सनातनम् ।। ३ ॥ व्यक्ताव्यक्तरूपकश्च विश्वेश: सर्वदिनखः । सर्वत्र सर्वतोभद्रश्चतुरः शिवालयः॥४॥ मूर्तिभेदेन यो शेयश्चतुरः प्रकीर्तितः। होमशाला च कर्तव्या चतुर्धरोपशोभिता ॥५॥ यक्षराजं रममाणं विदुर्दक्षिणदिमखम् । पूर्वापरमुखा ये च वक्ष्यन्ते ते यथार्थतः ॥ ६ ॥ ब्रह्मा विष्णुः शिवः सूर्य इन्द्रस्कन्दहुताशनाः । पूर्वापरमुखा होते वास्तुशास्त्रेषु कीर्तिताः ॥७॥ गणेशश्चैव नागेशः क्षेत्रपो भैरवस्तथा । धनाध्यक्षश्च गन्धर्वा ग्रहमातृगणास्तथा ॥ ८ ॥ नकुलीशश्च चण्डीशः कार्या दक्षिणदिनखाः । एवं विदितखाः कार्या नान्ये चैव दिवौकसः ॥९॥ नैत्याभिमुखः स्थाप्यो हनूमान्बलबुद्धिमान । रौद्र एकादशो रुदो राक्षसक्षयकारकः ॥ १०॥ ऊर्ध्वमूलमधोऽग्रं च विलोमं द्वा:कपाटकम् । वरुणोत्तरपूर्वेण स्थित्वा चैव सुखास्त्रतः? ॥ ११ ॥ तथा याम्यामुखं द्वारं कर्तव्यं शास्त्रपारगैः। देवाश्च द्वाराभिमुखा इति शास्त्रार्थनिश्चयः ॥ १२ ॥ दक्षिणोत्तरामुखेन प्राच्यां वै वरुणे तथा। वीतरागस्य प्रासादः पुरमध्ये सुखावहः ॥ १३ ॥