SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ अपराजितपृच्छा भास्करस्य समाख्याता अष्टैते प्रतिहारकाः। पूर्वदिकमतः प्रोक्ताः प्राच्यादिषु प्रदक्षिणम् ॥ १५॥ भास्करेषु द्वादशसु एषां कार्याश्च मूर्तयः। सुप्रशस्ताः परिकरा: शान्तिदाः सर्वकामदाः ॥ १६ ॥ इति सूर्यायतने द्वारदेवताः । अविघ्नो विघ्नराजश्च सुवक्त्री बलवानथ । गजकर्णश्च गोकर्णः सुसौम्यः शुभदायकः ॥ १७ ॥ दिग्द्वारस्था युग्मतश्च एते विघ्नविनाशनाः। इत्यष्टा च गणेशस्य प्रतिहारा: शुभप्रदाः ॥ १८॥ इति गणेशायतने द्वारदेवताः। जया व विजया चैव अजिता त्वपराजिता । विभक्ता मङ्गला कार्या मोहिनी स्तम्भिनी तथा ॥ १९॥ कर्तव्याश्वेच्छता शान्तिमित्यष्टौ प्रतिहारिकाः । गौर्यादिनवमूर्तीनां कुर्यात्परिकांस्तथा ॥२०॥ इति गौर्यायतने द्वारदेवताः । वैताल; करटश्चैव पिङ्गाक्षो भृकुटिस्तथा। धूम्रक कंकदश्चैव रक्ताक्षश्च सुलोचनः ॥ २१॥ इत्यष्टौ प्रतिहाराश्च चण्डिकाझाकरास्सदा । उक्तो द्वारक्रमश्चेति शस्तः परिकरे सदा ॥ २२॥ इति चण्डिकायतने द्वारदेवताः। हरादिवीतरागान्तं देवानां क्रमयोगतः। अष्ट षोडश द्वात्रिंशश्चतुःषष्टिकमेव च ॥२३॥ इन्द्रश्चन्द्रजयश्चैव महेन्द्रो विजयस्तथा । धरणेन्द्रः पद्मकश्च सुनाभः सुरदुन्दुभिः ॥ २४ ॥ इत्यष्टौ प्रतिहाराश्च वीतरागेऽति शान्तिदाः। अनुक्रमेण संस्थाप्याः प्राच्यादिषु प्रदक्षिणम् ॥ २५ ॥ लाञ्छनं सिंहासनं च चामरं कुसुमाञ्जलिः । प्रभामण्डलाशोकाश्च दुन्दुभिश्छत्रकत्रयम् ॥ २६ ॥ वीतरागेऽतिविख्याता देवानां तु प्रतिक्रमाः । यक्षशासनदेवीश्च कुर्यादुभयपार्श्वतः ॥ २७ ॥ इति जिनेन्द्रायतने द्वारदेवताः । इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां प्रासादद्वारप्रतिहारानुक्रमाधिकारो नाम त्रयस्त्रिंशदुत्तरशततमं सूत्रम् ।
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy