________________
(१३३) प्रासाद्वारप्रतिहारानुक्रमो नाम त्रयस्त्रिंशदुत्तरशततमं सूत्रम् ।।
नन्दी चैव महाकालो हेरम्बो भृङ्गी एव च । दुर्मुखः पाण्डुरश्चैव सितश्चाऽसित एव च ॥ १॥ वेदांशा द्वारपालाः स्युर्गङ्गायमुनान्यूनतः। तत्परे चामरधरा ऊर्च मृणालभूषिताः ॥२॥ पद्मपत्रं सुशोभात्यं स्तम्भ चैवेल्लिकान्वितम् । मृणालभूषयेदूधं कुर्यात्कन्दस्य बाह्यतः ॥ ३ ॥ कन्दवेधं यदा कुर्युस्तदा कुप्यन्ति देवताः। समूलांश्च विनश्यन्ति कर्तृकावरकांस्तथा ॥४॥ शाखास्यानुक्रमेणैव क्रमापट्टोत्तरङ्गयोः । रूपस्तम्भद्वयं वैव कण्ठकूटसमन्वितम् ॥५॥ वृषस्थं शङ्करं विद्याद् ब्रह्माणं हंससंस्थितम् । विष्णुंच गरुडारूढं श्रीकण्ठं नृत्यसंस्थितम् ॥ ६॥
इति शिवायतने द्वारदेवताः। शाचूडः प्रचण्डश्च जयश्च विजयस्तथा। धाता चैव विधाता च सुभद्रो भद्र एव च ॥७॥ दक्षिणोत्तरक्रमेण गङ्गा च यमुना स्थिते । उत्तरङ्गे भवेल्लक्ष्मीः क्षेत्रपाला उदुम्बरे ॥ ८॥ कण्ठके मातरः कार्या ग्रहात्रिपुरुषस्तथा । वासुदेवादिभेदांश्च द्वारेषु परिकल्पयेत् ॥९॥ घासुदेवं सङ्कर्षणं प्रद्युम्नं चानिरुद्धकम् । चतुर्युगप्रभेदेषु द्वारेषु परिकल्पयेत् ॥१०॥ येषां परिकरा ये स्युस्तांस्तद्वारेषु कल्पयेत् । भवेयुः सुखदा नित्यं कर्तुश्चावरकस्य तु ॥ ११ ॥
इति विष्ण्वायतने द्वारदेवताः। सत्यो धर्मः क्रमो जयो विजयो यज्ञभद्रकः। भवश्च विभवश्चैव ब्रह्मणः प्रतिहारकाः ॥ १२॥ ऋषीणामाश्रयः कार्यों देवतानां तु पार्श्वतः । चतुर्वेदसमायुक्तं ब्रह्माणं सर्वशान्तिदम् ॥ १३ ॥
इति ब्रह्मायतने द्वारदेवताः। दण्डी च पिङ्गलश्चैव आनन्दश्चान्तकस्तथा। चित्रो विचित्रो ज्ञातव्या: किरणाख्यः सुलोचनः ॥ १४ ॥