________________
३३५
अपराजितपृच्छा शाखाविस्तरमानं तु वसुभागविभाजितम् । भागभागाश्च शाखाः स्युर्मध्यस्तम्भो द्विभागिकः ॥ १४ ॥ कोणिका भागपादेन विस्तारे निर्गमे तथा। निर्गमः सार्धभागेन रूपस्तम्भः प्रशस्यते ॥ १५ ॥ निर्गमो भागमेवं च निर्गमश्च तदर्धतः । - - - - - - - - शेषं शाखा प्रशस्यते ॥ १६ ॥ पञ्चशाखा व गन्धर्वा रूपशाखा तृतीयका। स्तम्भशाखा भवेन्मध्ये रूपशाखा तु पञ्चमी ॥ १७ ॥ षष्ठी स्यात् खल्वशाखा च सिंहशाखा च सप्तमी । प्रासादकर्णसहितं सिंहशाखाग्रसूत्रतः ॥ १८॥
इति सप्तशास्त्रम् ॥ नवशाखं प्रवक्ष्यामि देवानां दुर्लभं सदा । यत्र विश्राम्यति शिवः सदा त्रिदशसम्युतः ॥ १९ ॥ शाखाविस्तारमानं तु रुद्रभागविभाजितम् । द्विभागः स्तम्भ इत्युक्त उभयोः कोणिकाद्वयम् ॥ २० ॥ निर्गमः सार्धभागेन पादोनद्वयमेव वा। रूपस्तम्भद्वयं कार्य गन्धर्वद्वयमेव च ॥ २१॥ पत्रशाखा च गन्धर्वा रूपस्तम्भस्तुतीयकः । चतुर्थी खल्वशाखा च गन्धर्धा इति पञ्चमी ॥ २२ ॥ रूपस्तम्भस्तु षष्ठी स्यात् रूपशाखा ततः परा। खल्वशाखा चाटमी स्यात् सिंहशाखा तथान्तिमा ॥ २३ ॥ पट्टके विस्तर: कार्य: प्रवेशश्चतुरंशतः । पञ्चशिश्च प्रकर्तव्यः सार्धचतुष्कतस्तथा ॥ २४ ॥ एवं च नवशाखं तु विभक्तं विश्वकर्मणा। नवाङ्ग चैव प्रासादे नवशाखास्तु कारयेत् ॥ २५ ॥
इति नवशाखद्वारम् ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
द्वारशाखाविभक्तिनिर्णयाधिकारी नाम द्वात्रिंशदुत्तरशततम सूत्रम् ॥