________________
१४६
रेखानिर्णयो नामैकोनचत्वारिंशदुसरशततम सूत्रम ॥ विषमा भूमिका: कार्या न शस्यन्ते समास्तु ताः । द्वयोः प्ररथयोर्मध्ये वृत्तमामलसारकम् ॥ ३१ ॥ नागरे लतिने कुर्यात् सान्धारे चैव मिश्रके। विमाननागरच्छन्दे विमानपुष्पके तथा ॥ ३२॥ विमाने भूमिजे चैव वृत्त चाकर्णिकान्तक । द्राविडे तु तथा चैवं तं तु रेखानुरूपकम् ॥ ३३ ॥ वराटे तु भवेद् घण्टा यादृग्मन्दारपुष्पकम् । वलभीषु च सर्वासु गजपृष्ठाकृतिस्तथा ॥ ३४ ॥ नागरेघण्टाकृतिकां कुर्यात् सिंहावलोकने । घण्टा चैवमुपाख्याता प्रयुक्ता वास्तुवेदिभिः ॥ ३५ ॥ नागसे लतिने रेखा सान्धारे मिश्रके तथा । लम्बना सूत्रयोगेन रेखा भवति नागरी ॥ ३६॥ कथिता गर्भमाधार्य विमाने भूमिजे तथा । वराटे द्राविडे चैव प्रशस्ता गर्भमार्गतः ॥ ३७॥ स्तम्भाद्याश्चैव गर्भाद्याः प्रासादभित्तिमानतः । चतुर्विधा भवेद्रेखा विमाने चैव भूमिजे ॥ ३८ ॥ विराटे द्राविडे कार्या छन्दे विमाननागरे। विमानपुष्पके तद्वद्वलभीष्वपि कामदा ॥ ३९ ॥ लाञ्छना सूत्रयोगेन रेखा सूत्रद्वयाडिन्ता । वेणुकोशोद्भवा रेखा कलाभेदक्रमादपि ॥ ४० ॥ नागरे लतिने कार्या सान्धारेऽप्यथ मिश्रके। दारुजे च रथारोहे प्रशस्ता सर्वकामदा ॥ ११ ॥ शिखाप्रान्त भवेद्रेखा घण्टान्ता वाऽप्यथोच्यते ।
स्कन्धान्ता च तथा प्रोक्ता अन्यथा दोषकारणम् ॥ ४२ ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
रेखानिर्णयाधिकारो नामैकोनचत्वारिंशदुत्तरशततमं सूत्रम् ।।