________________
(१३१) प्रासादविभक्तिकारनिर्णयो नामैकत्रिंशदुत्तरशततमं सूत्रम् ।।
विश्वकर्मोवाच
तदनन्तरमुद्दिष्टं द्वाराणां लक्षणं शुभम् । ज्येष्ठं मध्यं कनिष्ठं च प्रत्येकं त्रिविधं तथा ॥१॥ पद्मिनी नवशाखं च सप्तशाखं तु हस्तिनी । नन्दिनी पञ्चशाखं तु त्रिविधं चोत्तमं भवेत् ॥२॥ मुकुली मालिनी ज्येष्ठा गान्धारी सुभगा तथा । मध्यमेति द्विधा प्रोता कनिष्ठा सुप्रभा स्मृता ॥ ३॥ मुकुली चाष्टशाखं च षट्शाखं चैव मालिनी । गान्धारी च चतुःशाखं त्रिशाख सुभगा स्मृता ॥४॥ सुप्रभा तु विशाखं चैकशाखं स्मरकीर्तितम् । नवान्तमेकशाखादि लक्षणं कथ्यतेऽधुना ॥५॥ नवशाखे ध्वजश्चैको वृषभः पञ्चशाखिके । त्रिशाखे च तथा सिंहः सप्तशाखे गजः स्मृतः ॥ ६ ॥ द्विशाखे धूम इत्युक्तमग्निकर्मगृहं भवेत् । चतुःशाखे तु कर्तव्यः श्वानः कारुत्वजीविनाम् ॥ ७ ॥ षट्शाखे चैव कर्तव्यः रजकादेः खरः स्मृतः । ध्वाङ्खाश्चैवाऽष्टशाखे तु विहङ्गादेस्तथा स्मृतः ॥ ८॥ देवेशानां नवशाखं सप्तशास्खं दिवौकसाम् । सार्वभौमे पञ्चशाखं त्रिशाख मण्डलेश्वरे ॥ ९॥ द्विशाखं तु प्रकर्तव्यं शुद्रवैश्यद्विजन्मनाम् । नवान्तमेकशाखादि आयदोषविशोधनम् ॥ १० ॥ यथा शास्त्रं यथा मानं यथा युक्तिर्विधीयते। तथा द्वाराणि सर्वाणि कर्तव्यान्येव शिल्पिभिः ॥ ११ ॥ साधैर(रजुलैर्वा कुर्यादीनं तथाऽधिकम् । आयदोषविशुद्धयर्थ हस्ववृद्धी न दूषिते ॥ १२॥ प्रासादजातिरूपं यत् तद्वद् द्वारं च सूत्रतः।। तलच्छन्दानुसारेण द्वारशाखा विभाजयेत् ॥ १३ ॥ व्यङ्गकादिविभेदेन नवाङ्गस्यानुसारतः । शाखात्रय व्यङ्गकेषु पचाने पत्र वै लताः॥१४॥