________________
अपराजित पृच्छा
सप्तशाखाश्च सप्ताङ्गे नवशाखा नवाङ्गके । हीनशाखा न कर्तव्या अधिका नैव दूषयेत् ॥ १५ ॥
एकस्कन्धे यथा वृक्षे शाखा सङ्ख्या ह्यनेकशः । प्रासादस्य तथा द्वारे हीनशाखा न शस्यते ॥ १६ ॥ उभयो: कर्णयुक्तानि विभक्तान्युदकान्तरैः । प्रासादस्य तथाङ्गानि शेषं भद्रस्य भूषणम् ॥ १७ ॥
अपराजित उवाच -
अर्चालिङ्गं न्यूनाधिकं प्रासादक्रममानतः ।
शाखास्थानं कथं चाऽत्र सन्देहो मे वद प्रभो ॥ १८ ॥ विश्वकर्मोवाच
शृणु वत्स महाप्राज्ञ पृष्टोऽहं पृच्छतेऽपरम् । अर्चा श्रेष्ठा तथा लिङ्गं निलयांशेऽपराजिता ॥ १९ ॥
मानं न्यूनाधिकं शस्तं स्वयम्भुवाणरत्नजे । घटितेषु विधिः ख्यातो हार्चालिङ्गेषु तत्रतः ॥ २० ॥
इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्री भुवन देवाचार्योक्तापराजित पृच्छायां प्रासादविभक्तिद्वारनिर्णय | धिकारो नामैक त्रिंशदुत्तरशततमं सूत्रम् ॥
३२९