________________
अपराजितपृच्छा एकहस्ते तु प्रासादे द्वारं सूर्याङ्गुलोदयम् । हस्ते हस्ते सूर्यवृद्धिः यावत्स्यात् पञ्चहस्तकम् ॥ १६ ॥ त्रितुर्याशा च सप्तान्तं नवान्तं च तदर्धतः। तदूर्वं शतार्धान्तं च वर्धयेद् द्वयङ्गुलैः पुनः ॥ १७ ॥ उच्छ्याश्रूण विस्तारं शुभं स्यात्तु कलाधिकम् । भूमिजे द्वारमानं च प्रयुक्तं वास्तुवेदिभिः ॥ १८ ॥
. इति भूमिजप्रासादद्वारमानम् ॥ रूपादौ रसदिगन्तं शुन्यतत्त्वान्ततः क्रमात् ।। प्रस्ताङ्कानुक्रमं च द्वारार्थ तु सुरालये ॥ १९ ॥ दशादौ दशवद्धिश्च तत्त्वयुग्मान्तगाः क्रमात् । पृथुत्वं च तदर्धन शुभं स्यात्तु कलाधिके ॥२०॥ रूपस्त्वेको रसैः षट् च दिशं दश प्रस्तारयेत् । पञ्चाशच्छन्यतत्वानि प्रस्तारस्य क्रमो भवेत् ॥ २१॥ एकहस्तादिप्रासादाः पञ्चाशद्धस्तकावधि । षट् तथा दिक् संस्थानेषु कार्या अङ्गाः सुसंक्षकाः ॥२२॥ दिग्भिर्दश पञ्च तत्त्वैर्युग्मं द्वाभ्यां क्रमागतम् । इति चाङ्गुलप्रस्तारं द्वागर्थ तु प्रकल्पयेत् ॥ २३ ॥ एकहस्ते तु प्रासादे द्वारं विद्यादृशाङ्गलम् । दशाङ्गुलं प्रतिकरं यावत् षड्ढस्तकं भवेत् ॥ २४ ॥ अतऊर्ध्वं दिक्करान्तं वृद्धिः पञ्चाङ्गुला भवेत् । द्वयङ्गुला च ततो वृद्धिः पञ्चाशद्धस्तकावधि ॥ २ ॥ पृथुत्वं च तदर्धेन शुभं स्यात्तु कलाधिकम् । द्राविडे द्वारविस्तार: प्रयुक्तो वास्तुवेदिभिः ॥ २६ ॥ विमाने भूमिजे मान वराटेषु तथैव च । मिश्रके लतिने चैव मानं शस्तं च नागरम् ॥ २७ ॥ दशहस्तात्परं चैव सान्धारे कामदं तथा । विमाननागरच्छन्दे कुर्याद्विमानपुष्पके ॥ २८ ॥ नागरं शोभनं द्वार तथा सिंहावलोकने । वलभ्यां भूमिजं मानं द्राविडं फांसनाकृतौ ॥ २९ ॥ धातुजे रत्नजे चैव दारुजे च रथारुहे। यश्च्छन्दश्चैव प्रासादे द्वारं तन्मानकं भवेत् ॥ ३०॥ . इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां समस्तजातीयप्रासादद्वारप्रमाणाधिकारो नाम त्रिंशदुत्तरशततमं सूत्रम ।।