________________
(१३०) समस्तजातीयप्रासादवारप्रमाणं त्रिंशदुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच--
प्रयुक्तं प्रद्योतकरं मधुरं मुखरं सदा । उक्तं मुक्ताफलं पङ्क्तौ द्वारमाला प्रमाणतः॥१॥ तन्वादौ व कृतानष्टौ खबाणान् विन्यसेत् करान् । . प्रस्तार्याडानुक्रमं च द्वारार्थ तु सुरालये ॥२॥ द्वयष्टादौ च कलावृद्धिर्गुणयुग्मान्तगाः क्रमः । द्वारोर्वार्धश्च विस्तारो न तदर्धाधिकः शुभः ॥३॥ प्रालादद्वारसूत्रार्थमई प्रस्तारयेद् बुधः । तनुस्त्वेका कृतैश्चतुरष्टावष्ट क्रमागतम् ॥४॥ खं शून्यं पञ्चभिर्वाणा व्यसने विस्तरे क्षरः । करो हस्ताभिधानं च क्रमात् प्रस्तारयेत्तथा ॥५॥ एकहस्तादिप्रासादाः पञ्चाशद्धस्तकावधि । प्रस्तारक्रमयोगेन चतुरष्टौ सुसंक्षकाः ॥ ६॥
यष्टादौ च षोडशान्ता कला वै षोडश स्मृताः । गुणैलिभिर्युग्मे द्विभिः समुच्छ्यार्थेषु चाङ्गलाः ॥ ७ ॥ एकहस्ते तु प्रासादे द्वारं स्यात् षोडशाङ्गुलम् । कार्या षोडशतो वृद्धिः पर्यन्ते च चतुष्करम् ॥ ८॥ गुणाङ्गलाऽष्टहस्तान्तं तत्परं द्वयङ्गला करे। पञ्चाशद्धस्तपर्यन्तं प्रयुक्ता वास्तुवेदिभिः॥९॥ वारं प्रासादसनादौ यानझम्पानतल्पके।। पृथुत्वमर्धमर्धं च शुभं स्यात्तु कलाधिके ॥ १०॥
इति नागरप्रासाद्मानम् ।। क्षमादौ पक्ष मुनीन्द्रा ग्रहाः शून्यबाणान्तगाः । प्रस्तार्याङ्कानुक्रमं च द्वारार्थ तु सुरालये ॥ ११ ॥ सूर्यादौ द्वादशवृद्धिस्तत्ववेदयुग्मान्तगाः। अर्धनार्धन विस्तारः शुभः स्यात्तु कलाधिके ॥ १२ ॥ क्षमा स्वेका तस्व पञ्च मुनीन्द्राः सप्त एव च । ग्रहा नव शून्यैर्विन्दु तवाणी पश्चांशको ॥ १३ ॥ क्षमादौ पञ्च मुनीन्द्रा ग्रहाः शुन्यवाणान्तगाः। प्रासादवारसूत्रार्थमळू प्रस्तारयेद् बुधः ॥ १४ ॥ एकहस्तादिप्रासादाः पञ्चाशद्धस्तकावधि । पञ्चसानवैर्वापि कार्या अट्टाः सुसंक्षकाः॥ १५ ॥