________________
(१२९) प्रासादगर्भगृहोदुम्बरार्धचन्द्रलक्षणद्वारप्रतिष्ठा नामैकोनत्रिंश
दुत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
गर्भगृहप्रमाणं च विश्वकर्मवचो यथा। तथा ते सम्प्रवक्ष्यामि शृणुत्वमपराजित ॥ १॥ कुम्भी तु कुम्भके श्रेया स्तम्भो शेयस्तथोद्गमः । भरणं भरणी झेया कपोताली तथा शिरः॥२॥ अधस्तात् कूटच्छाद्यस्य कुर्यात्पट्टस्य पेटकम् । अर्धोदये करोटं च कर्तव्यं विधिपूर्वकम् ॥ ३॥ अथान्यत् सम्प्रवक्ष्यामि मानं गर्भगृहस्य च । प्रासादानां बृहन्मानं वरस विज्ञायते यतः॥४॥ गर्भव्यास: षडंशस्तु सपादः सार्ध एव च। पादोनांशाधिको वाऽपि ज्येष्ठमध्यकनिष्ठकः ॥५॥ तत्रोदयेऽष्टभिर्भक्ते भागेनैकेन कुम्भिका। स्तम्भः सार्धचतुष्कांशो भागमुच्छालको मतः ॥६॥ शीर्षकं भागमेकं तु अर्धं पट्टसमुच्छ्यः । गर्भव्यासार्धमानेन कुर्यात् पद्मशिलोदयम् ॥ ७ ॥ न कर्तव्या दर्दरिका पञ्चसप्तमयोचिते ?। अनेनैव प्रकारेण कुर्याद गर्भगृहोच्छ्यम् ॥ ८॥
इति गर्भगृहोच्छ्यमानम् ॥ उदुम्बरं तथा वक्ष्ये कुम्भिकान्तं तदुच्छ्यः । तस्यार्धेन त्रिभागेन पादोनरहितं तथा ॥९॥ उक्तं चतुर्विधं शस्तं कुर्याच्चैवमुदुम्बरम् । अत्युत्तमाश्च चत्वारो न्यूना दुप्यास्तथाधिकाः ॥१०॥ खुरकोर्धचन्द्रस्स्यात् तदुर्च स्यादुदुम्बरः । उदुम्बरार्धे व्यंशे वा पादे वा गर्भभूमिका ॥ ११ ॥ मण्डपेषु च सर्वेषु पीठान्ते रङ्गभूमिका । एषा युक्तिर्विधातव्या सर्वकामफलोदया ।। १२ ॥ द्वार्विस्तरत्रिभागेन मध्ये मन्दारिका तथा । वृत्तं मन्दारकं कुर्याद्युतं पश्नमृणालतः ॥ १३ ॥