________________
३२४
अपराजितपृच्छा मूलनासिकयोर्मध्ये स्थाप्यश्चोदुम्बरस्तथा । सिंहशाखा मूलनासा समसूत्रे विचक्षणः॥ १४ ।। जाड्यकुम्भः कर्णमाला चोर्चे वृत्तं मृणालकम् । मन्दारोभयपक्षे तु कीर्तिवक्त्रद्वयं भवेत् ॥ १५ ॥ भृकुट्या कुटिलाक्षं च दंष्ट्राभिः समलङ्कतम् । कणोंपशृङ्गैस्तदधः शाखापत्रैरलतम् ॥ १६ ॥ तलच्छन्दे व शाखा तु स्थादुदुम्बरपक्षयोः । तद्रपा क्रियते प्रार्निर्गमे पीठसंयुता ॥ १७ ॥ शालोदरपृथुत्वेन शाखावत्स्यादुदुम्बरः। शाखाकपाटग्रहणी उभयोर्भित्तिमानतः ॥१८॥
इत्युदुम्बरमानम् ॥ अर्धचन्द्रं प्रवक्ष्यामि यथोक्तं लक्षणान्वितम् । द्वारस्य विस्तरार्धन कर्तव्यस्तस्य निर्गमः ॥ १९ ॥ निर्गमस्य प्रमाणेन द्विगुणं देयतस्ततः। त्रिभागं चोत्सजेद् भागं वृत्तं तु भ्रामयेत्ततः ।। २० ॥ अर्धचन्द्राकृतिं कुर्याच्छाखाने गर्भकान्वितम् । गगारक याम्योत्तरे तस्यान्ते चैव पादुकाः ॥ २१ ॥ पत्रशाखासमायुक्ताः पद्माकारैरलङ्कताः। गगारको च द्वा मध्ये वृत्तस्य वामदक्षिणे ॥ २२ ॥ नाभ्युद्भवलतामध्ये गकारोदरनिर्गमः । एवमुक्तश्चार्धचन्द्रः सर्वकामफलप्रदः ॥ २३ ॥
इत्यर्धचन्द्रः॥ द्वारस्य चोच्छ्यः कार्यः शुभचन्द्रबलस्थितौ। खातं कृत्वोदुम्बरस्य पञ्चरत्नानि निक्षिपेत् ॥ २४॥ शाखाश्चोदुम्बरश्चैव हीनाश्चैवोत्तरगतः। वस्त्रेणाच्छादितं कृत्वा वास्तुदेवं समर्चयेत् ॥ २५ ॥ आदौ दक्षिणशाखायां स्थापनं कुरुते ध्रुवम् । शाखोत्सेधचतुर्थाशे द्वारपालो प्रपूजयेत् ॥ २६ ॥ सहिरण्यैः सुकलशैर्वस्त्रैराच्छादितैः क्रमात् । उदुम्बरस्याऽभिषेकस्तथा शाखोत्तरङ्गयोः ॥ २७॥