________________
३२२
अपराजितपृच्छा खुरकं पीठमध्ये तु सपादं कुम्भकोऽशकः । भागार्ध च घटे कुर्यादध ऊर्ध्वं च चिप्पिके ॥ १५ ॥ अन्तःपत्रं घटाधू स्यात् घटतुल्या तु मालिका । मञ्चिका तत्समोत्सेधे जङ्घा भागद्वयोन्नता ॥१६॥ भरणं चैव भागाध शिरःपट्टी च तत्समा। ऊर्ध्वं च तत्सम पढे पादार्धान्तरपत्रिका ॥ १७ ॥ पादोनांशं कूटच्छाद्य निर्गमे च पदव्यम् । एकपादा क्षोभणा स्यात् स्तरमानमितीरशम् ॥ १८ ॥
इति भूमिजप्रासादोदयस्तरसङ्ख्याप्रमाणम् ।। द्राविडे चैवमुत्सेधे यावत्पीठोलमस्तकम् । कणे समुत्सेधमानं घण्टान्तं तु प्रकल्पयेत् ॥ १९ ।। एकभूमादितो वृद्धिरन्ते द्वादशभूमिकम् । जङ्घावृद्धिक्रमयोगे साद्यसूर्यान्तका भवेत् ॥ २० ॥
इति द्राविडप्रासादमण्डोवरः ॥ धातुजे रत्नजे चैव दारुजे च रथारुहे । प्रोक्तं च नागरं मानं प्रयुक्तं वास्तुवेदिभिः ॥ २१ ॥ इत्येवं मानमुद्दिश्य वास्तुविद्भिरुदाहृतम् । धर्मार्थकाममोक्षाणां प्राप्तिहेतुरपीरशम् ।। २२ ॥ सूत्रशास्त्रप्रयुक्तं च वास्तुवेदउदाहृतम् । स सर्वमाप्नोति नर ईदृशं यस्तु कारयेत् ॥ २३ ।। अमात्वा कुरुते यस्तु स शिल्पी दोषभाग भवेत् । दोषं च वर्जयेत्प्रायः कृते चैव महाभयम् ॥ २४ ॥ सर्व कुर्याश्च शास्त्रोक्तं सर्व कुर्याश्च शोभनम् । शास्त्रोक्तमेव चाऽत्रोक्तं दृश्यं मूलागमे तथा ॥ २५॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां प्रासादसमस्तमण्डोवराधिकारो नामाष्टाविंशत्युत्तरं शततमं सूत्रम् ।।