________________
(१२८) प्रासादसमस्त मण्डोवरो नामाष्टाविंशत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
मेरुमण्डोवरं वच्मि विभक्तिदलसङ्ख्यया । पुरतः प्रोच्यते मानं स्थलानां स्थूलतोद्भवम् ॥ १ ॥ चतुःपञ्चाशदेवोक्ताः पुनर्भागैश्च पूर्वतः । भरण्यूर्ध्वे भवेन्मञ्च ष्टभागसमुच्छ्रिता ॥ २ ॥ पञ्चनेत्रोन्नता जङ्घा उद्गमे च त्रयोदश । पुनर्भरण्यष्टभागा शेषं पूर्वविकल्पितम् ॥ ३ ॥ अतस्ताश्च पुनः स्थूला एकपञ्चाशदद्धितः । कूटच्छाद्योपरि कुर्यात् सप्तांशोन्नतमञ्चिकाम् ॥ ४ ॥ षोडशांशा पुनर्जङ्घा भरणी सप्तभागिका । शीर्षपट्टी चतुर्भागाऽन्तःपट्टः पञ्चभागिकः ॥ ५ ॥ कूटच्छाद्यं द्वादशांशं कर्तव्यं सर्वकामदम् । एषा युक्तिर्विधातव्या मेरुमण्डोवरे तथा ॥ ६ ॥
अपराजित उवाच -
विश्वकर्मोवाच --
४१ अ.
इति मेरुमण्डोवराधिकारः ॥
स्वल्पद्रव्यैः संयतैश्च क्रियते यः शिवालयः । तन्मानानुक्रमं वक्ष्ये क्षीणवित्ताः कलौ युगे ॥ ७ ॥
स्वल्पद्रव्यैर्यदा युक्तिर्महापुण्योदया भवेत् । पीठं तु कथितं पूर्वमूर्ध्वमानमतः शृणु ॥ ८ ॥ खुरं कुम्भीच कलशं कपोतालीमनन्तरम् । जङ्घारूपाणि मश्चिका ॥ ९ ॥ शेषाः कार्याश्च समसूत्रतः । ॥ १० ॥
ग्रासपट्टया समं युक्ता कर्तव्या सर्वकामदा | इति साधारणः प्रोक्तः प्रासादे स्तरसङ्ख्यया ॥ ११ ॥ भूमिजे चैव प्रासादे वराटे च विमानके । विस्ताराच्च समुत्सेधपर्यन्तं चाऽऽद्यभूमिका ॥ १२ ॥ शुकूटोदयं त्यक्त्वा तन्मध्ये तु विचक्षणैः । शीर्षोदयो विधातव्यश्छाद्यान्तं कुम्भकादितः ॥ १३ ॥ तत्समुच्छ्रययुक्तिं च प्रवक्ष्ये स्तरसङ्ख्यया । विभकं सार्धसप्तांशः कुम्भादिप्रहरान्तकम् ॥ १४ ॥