________________
३२०
अपराजितपृच्छा कूटच्छाधोत्सेधमानं स्यात्रयोदशभागतः । भागाध स्कन्धपट्टी च स्कन्धश्चैव त्रिभागिकः॥ ४२ ॥ भागार्धे मुखपट्टी च छाद्योत्सेधो युगांशकः । एकभागा दण्डिका च अर्ध चान्तरपत्रिका ॥४३॥ कर्णः सपादभागश्च स्कन्धश्चैव द्विभागिकः । स्कन्धपट्टी भागपादा कर्तव्या सर्वकामदा ॥४४॥ कपोताल्यग्रनिष्कासं कुर्यात्तु दशभागिकम् । चतुर्भागमध: स्कन्धं साधं च मणिबन्धकम् ॥ ४५ ॥ तत्तुल्याने चिप्पिका तु कर्तव्या सर्वकामदा। उच्छ्यं कथयिष्यामि शृणु चैकाग्रमानसः ॥ ४६॥ कामरूपं भवेद् भागं पदिका स्कन्धपट्टिका । भागाध चिपिकां कुर्यात् पादं च मुखपट्टिकाम् ॥ ४७ ॥ कर्णो द्विभाग इत्युक्तो भागार्ध दण्डकं मतम् । मणिबन्धस्य संस्थाने त्रिभागं सारिलम्बनम् ॥४८॥ पडिर्भागैः प्रवेश: स्यात् षोडशांशैश्च निर्गमः । वार्यन्तरं च षड्भागः प्रवेशः षड्भिरेव च ॥ ४९ ॥ स्वके स्वके च स्थाने च बृहल्लघुक्रमैस्तथा । भक्तिपादषोडशांशे पृथुत्वमुदकान्तरे ॥ ५० ॥ इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां नागरप्रासादविभक्तिस्तरप्रमाणलक्षणाधिकारो नाम सप्तविंशत्युत्तरशततमं सूत्रम् ।।