________________
३१९
नागरप्रासादविभक्तिस्तरप्रमाणलक्षणं सप्तविंशत्युत्तरशततमं सूत्रम् ॥ पादं चान्तरपत्रं च सार्ध पश्चोद्गमोदयः । द्वितीयश्चोद्गमः कार्यः सार्धाष्टांश; समुच्छ्तिः ॥ २८ ॥ अन्तःपत्री च भागाध तत्प्रमाणान्धकारिका । मासस्य पट्टिका कार्या त्रिभिर्भागैः समुच्छ्तिा ॥ २९ ॥ चित्राणि कपिरूपाणि निर्गमोद्गमकर्णिके । दलरूपाश्वोत्पतन्ति वीक्षन्ते भावरूपकाः ॥ ३०॥
इत्युद्गमः॥ भरण्यष्टांशकोत्सेधा अधश्छन्दं तु वृत्तकम् । उद्गमे ग्रासपट्टी च भरणी स्कन्धपट्टिका ॥ ३१ ॥ वृत्ताकाराः प्रकर्तव्याः समपत्रा च निर्गमे । पादोनांशं कामरूपं पादं स्यात् स्कन्धपट्टिका ॥ ३२ ॥ चिप्पिका चार्धभागा स्यात् सपादा कर्णपालिका । पट्टिकान्तरपट्टी च पादपादं प्रकल्पयेत् ॥ ३३ ॥ स्कन्धः कार्यों विभागश्च भागाध कर्णपालिका। पट्टीकान्तरपट्टी च पादपादं प्रकल्पयेत् ॥ ३४ ॥ भागार्धं च भवेत्स्कन्धः कर्णः पादोनभागिकः । अन्तःपत्रं चार्धभागं कर्तव्यं सर्वकामदम् ॥ ३५॥ नासोपाङ्गेषु सर्वेषु पल्लवाः कामरूपिणः। अशोकपल्लवाकारा: कर्तव्याः सर्वकामदाः ॥३६॥ तमालपत्रकाकाराः कर्णकस्कन्धबन्धकाः । तदालीनाकारपत्रैर्वकस्यो– समार्गकैः ॥ ३७॥
इति भरणी ॥ शिरावटी पञ्चभागा समुच्छाये प्रकीर्तिता। भारपुत्तलिकायुक्तां त्रिभागैस्तां च कारयेत् ॥ ३८॥ पादोनस्तु भवेत्स्कन्धः कर्णः पादोनभागिकः । अन्तःपत्रं चार्धमागं कर्तव्यं सर्वकामदम् ॥ ३९ ॥ तर्वे च भवेत्पर्ट भागैः पञ्चभिरुच्छ्तिम् ।। तन्त्रकेन च संयुक्तं युक्तालङ्कारभूषितम् ॥ ४० ॥
इति पट्टयुक्ता शिरोवटी॥ तदूर्वा तु कपोताली पूर्वमानप्रकल्पिता । सार्धद्वयं च तत्पर्ट कर्तव्यं सर्वकामदम् ॥ ४१ ॥
इति कपोताल्या माला ॥