________________
अपराजितपृच्छा
कपोताली चाष्टभागा भागाध प्रासपट्टिका । स्कन्धः सपादद्वयंशस्त्वेकपादा मुखपट्टिका ॥ १३ ॥ कार्थः कणों द्विभागश्च स्कन्धः सार्धद्वयोन्नतः। भागाध स्कन्धपट्टी च कर्तव्या मध्यव्यक्तयः ।। १४ ॥ मुखपट्टादधोऽग्रे तु कर्तव्याश्च गगारकाः। समताप्रविधातव्यास्तराङ्गुलविदांशकैः ? ।। १५ ॥ ऊर्ध्व स्कन्धो विधातव्यो दलानां गर्भभद्रतः। ठकारा मुखलूमोचे कपोताली वितरिताः ॥ १६ ॥
इति कपोताली ॥ मश्चिकाश्च प्रवक्ष्यामि व्यक्तिस्तु नवभागतः । अन्तःपढें सपादं वा पादोनं कामरूपकम् ॥ १७ ॥ पट्टिका भागपादेन स्कन्धश्चैव द्विभागिकः । मुखपट्टी भवेत्पादा सपादः कर्ण एव च ।। १८ ॥ सपादश्च भवेत्स्कन्धः पादा चान्तरपट्टिका । कर्णिकं सार्धभागं च पादा निर्वाणपट्टिका ॥ १९ ॥ कपोतालीयुक्तिसूत्रे कारयेच गगारकान् । जवास्तम्भर्निर्गमाख्या भरणी लम्बनाकृतिः ॥ २० ॥
इति मञ्चिका ॥ कार्या तदूर्व जवा च पञ्चत्रिंशत्समुच्छिता। . भ्रमनिर्माणत: स्तम्भै सिकोपाङ्गफालना ॥ २१॥ मूलनासासु सर्वासु स्तम्भैः स्युश्चतुरधिकाः । गजश्च सिंहब्यालैश्च मकरैः समलङ्कताः ॥ २२ ॥ कर्णेप्यष्टौ च दिक्पाला: प्राच्यादिषु प्रदक्षिणम् । नटेश: पश्चिमे भद्रे हान्धकैः सह दक्षिणे ॥ २३ ॥ चण्डस्य चोत्तरे देवी दंष्ट्राननसुशोभिताः।। बीतरागे च शासनदेव्यश्चैव दिशाः प्रति ॥ २४ ॥ वारिमार्गे मुनीन्द्रांस्तु प्रलीनांश्च तपःसु च । गवाक्षाकारभद्रे तु कुर्यानिर्गमभूषितान् ॥ २५ ॥ नानाभरणकैः स्तम्भैस्तिलकच्छाद्यभूषिताः । ब्रह्मविष्णुमहेशाद्या इल्लिकावलणैर्युताः ॥ २६ ॥
इति जङ्घा ।। पञ्चदशोन्नत: कार्य उद्गमः सर्वकामदः । छाद्यं भागं तथार्धा च कपोताली तदूर्ध्वतः ॥ २७ ॥