________________
(१२७) नागरप्रासादविभक्तिस्तरप्रमाणलक्षणं सप्तविंशत्युत्तरशततमं
सूत्रम् ॥
विश्वकर्मोवाच
उच्छ्या: कथिताः पूर्व प्रासादे नागराभिधे । विभक्तिभागसङ्ख्यां च कथयामि च साम्प्रतम् ॥ १॥ चतुश्चत्वारिंशदुक्तान स्थापयेदप्रतः क्रमात् । एकहस्तादितो यावत् पञ्चाशद्धस्तकं भवेत् ॥ २॥ खुरोन्नतिः पञ्चभागा विभागः खुरनिर्गमः । अन्त:पत्रं च भागाध द्विभागः कर्ण ऊर्ध्वतः ॥ ३॥ चिप्पिका सार्धभागा स्यात् सार्धाशं कर्णकं भवेत् । तीक्ष्णाग्रं तत्प्रकर्तव्यं पट्टिकाद्वयभूषितम् ॥ ४॥ पट्टिका पादनिष्कासा सपादांशं च कर्णकम् । स्कन्धः कुम्भो मुखाली च कर्णान्ते तद्विनिर्गमः ॥ ५॥
इति खुरकः॥
विंशतिभागमुत्सेधं तवं कुम्भकं न्यसेत् । भागाध स्कन्धपट्टी च चिप्पिका चैकभागिका ॥६॥ वृत्ताकारं सुललितं स्कन्धं कुर्यात्तु कुम्भके। विचित्रपल्लवाकीर्ण चिप्पीपत्रादिराजितम् ।। ७ ॥ प्रातमध्याह्नापरासु ब्रह्मविष्णुमहेश्वराः। त्रिसन्ध्यं भद्रशोभायं चित्रैः परिकरवतम् ॥ ८॥ नासायां रूपसंघाटा रथिका दलगतः । मृणालपत्रशोभाढ्यं स्तम्भेषु तोरणं न्यसेत् ॥९॥
इति कुम्भकः॥ सर्वे रूपोपमाः कार्या विचित्राकाररूपिणः। खुरमानं यथा चादौ कुम्भमानं तथा भवेत् ॥ १०॥
इति कुम्भीकुम्भकः ॥ कलशं चाष्टभागैः स्यादेकांशा मध्यचिप्पिका। वृत्तं च षड्भागमुक्त भागा वै ऊर्ध्वचिप्पिका ॥११॥ पट्टिका बन्धशोभात्या नैकरत्नैः समाकुला । अन्तःपर्ट सार्धद्वयं पुष्पकादिविभूषितम् ॥ १२ ॥
इति कलश:॥