________________
अपराजितपृच्छा सिंहावलोकनाः सर्वे सिंहकर्णैर्विभूषिताः। विस्तरार्धः समुत्सेधः पर्यन्ते पृथुछाद्यकम् ॥ १५ ॥ धातुजे रत्नजे चैव दारुजे तु रथारहे । नागरच्छन्दवत्कुर्यात् प्रासादे परमोदयम् ॥ १६ ॥ उच्छ्याः कथिताश्चैवं विभक्तिहस्तसम्ख्यया । अत उच्छ्यमध्यस्थभागसङ्ख्याः प्रकल्पयेत् ॥ १७ ॥
इत्यन्यप्रासादोदयमानम् ॥ मृदिष्टकाकमयुक्ती भित्तिं पादां प्रकल्पयेत् । पञ्चमांशेऽथवा सा तु षष्ठांशे शैलजे भवेत् ॥ १८ ॥ दारुजे सप्तमांशे च सान्धारे चाष्टमांशके । धातुजे रत्नजे भित्तिः प्रासादे दशमांशतः ॥ १९ ॥ प्रमाणं तद्यत्पुथुत्वं कुम्भके मूलनासिके । त्रिपञ्चसप्तनन्दान्तं फालनोपाङ्गबाह्यतः ॥ २० ॥ रथे प्रतिरथे कर्णे कर्णिकायां च नन्दिका । कर्णिका भद्रनिष्कासमुखभद्रं शुकामकम् ।। २१ ॥ एतत्सर्व प्रयोक्तव्यं कर्णोपाङ्गादिनासिकम् । मूलसीमान्ततो बाह्ये नैतद् वास्तुपरिग्रहे ॥ २२ ॥ चतुरथं भद्रकं च सुभद्रं प्रतिभद्रकम् । । गर्भगृहं फालनीयं मर्म तत्र न पीडयेत् ॥ २३ ॥ एकद्वित्रिकमात्राभिर्गर्भगेह यदायतम् । यमचुली तदा नाम भर्तुग्रहविनाशिका ॥ २४ ॥ दारुजे वलभीनां तु आयतं च न दूषयेत् । प्रशस्तं सर्वकृत्येषु चतुरथं शुभप्रदम् ।। २५ ।। इति सूत्रसन्तानगुणकीर्तिप्रकाशप्रोक्तृश्रीभुवनदेवाचार्योक्तापराजितपृच्छायां
समस्तप्रासादोदयमानाधिकारो नाम षड्विंशत्युत्तरशततमं सूत्रम् ।।