________________
(१२६) समस्तप्रासादोदद्यमानो नाम षड्विंशत्युत्तरशततमं सूत्रम् ॥
विश्वकर्मोवाच
एकहस्ते चोदयस्तु स्यात्रयस्त्रिंशदङ्गुलेः । प्रासादे च द्विहस्ते तु पञ्चपञ्चाशदङ्गुलैः ॥ १ ॥ सप्तसप्तत्यङ्गुलानि प्रासादे तु त्रिहस्तके | एकोनशताङ्गुलैश्च वेदहस्ते सुरालये ॥ २ ॥ प्रासादे पञ्चहस्ते चैकविंशत्युत्तरं शतम् । हासवृद्धी पञ्चयावत् स्वं कुर्यात्तदूर्ध्वतः ॥ ३ ॥ पञ्चोर्ध्वं नवपर्यन्तं वृद्धिर्मत्वङ्गलैर्भवेत् । अष्टहस्तोदयश्चैव प्रासादे दशहस्तके ॥ ४ ॥ विंशत्यन्तं दशोर्ध्वं च वृद्धिः सूर्याङ्गुलैर्भवेत् । त्रयोदशकराः सप्ताङ्गुलं विंशतिहस्तके ॥ ५ ॥ अतऊर्ध्व पुनर्वृद्धिर्हस्ते हस्ते करार्धतः । त्रिंशद्धस्ते सप्ताङ्गुलं हस्ता अष्टादशैव च ॥ ६ ॥ ऊर्ध्वं पञ्चाशदतं च हस्ते हस्ते नवाङ्गुला I
राणां वै सार्धपञ्चविंशतिश्च शतार्धके ॥ ७ ॥ एकोनविंशत्यङ्गुला कामदा च तदग्रतः । एषा युक्तिर्विधातव्या प्रासादस्योत्तमोदये ॥ ८ ॥ नागरे लतिने चैव सान्धारे चैव मिश्रके । विमाननागरछन् कुर्याद्विमानपुष्पके ॥ ९ ॥ कुम्भकादि प्रहारान्तं प्रयुक्तं वास्तुवेदिभिः । तदधस्तान्तु पीठं च ऊर्ध्वे स्याच्छिखरोदयः ॥ १० ॥
इति नागरप्रासादोदय मानम् ॥
विस्तारसम उत्सेधे यावत् प्रथम भूमिका । शृङ्गकूटोदयं त्यक्का शेषं मण्डोवरं भवेत् ॥ ११ ॥ विमाने भूमिजे चैव वराडे च तथैव च । द्राविडे चैवमुत्सेधं यावत्पीठोर्ध्वमस्तकम् ॥ १२ ॥ कर्णमानेन चोत्सेधं घण्टान्तं तु प्रकल्पयेत् । एकभूम्यादितो वृद्धिर्यावद् द्वादशभूमिकाः ॥ १३ ॥ जङ्घवृद्धिमयोगे साद्यसूर्यान्तका भवेत् । वलभीषु समस्तासु प्रासादपरमोदयः ॥ १४ ॥